SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ऐं नमः ॥ षोडशः सर्गः ॥ समीपमुपजग्मिवानेथ गिरीशितुः श्रीगुरुः, प्रभावमतिशायिनं त्रिभुवने समाकर्णयन् । *सुरद्रुमसमुल्लसत्कनककान्तकायद्युति “र्लघूकृततनुः समीक्षितुमिवोत्सुकः स्वर्गिरिः ॥१॥ (१) पार्श्वम् । (२) उपागतः । (३) मङ्गलार्थे । (४) सूरीन्द्रः । (५) त्रैलोक्यतीर्थसार्थेभ्योऽप्यधिकं माहात्म्यम् । (६) श्रृण्वन् । (७) कल्पवृक्षस्तद्वद्वा दातृतया निरुपमरूपवत्तया वा दीप्यमानः, तथा स्वर्णैस्तद्वद्वा रम्याङ्गद्युतिः । (८) अल्पीभूय । (९) मेरुः ॥१॥ तदद्रितलहट्टिकाप्रथितपादलिप्ताभिधं, पपौ पुरमपश्रमः श्रमणशर्वरीवल्लभः । "उपेतमिह पूर्ववत्पुनरुपान्तमानन्दयुक् पुरं प्रथमहार्दतः किमिति दूरभावं त्यजन् ॥२॥ (१) शत्रुञ्जयस्य परिसरभूम्यां ख्यातं पादलिप्त इति नाम यस्य । (२) सादरं ददर्श । (३) गतश्रमः । (४) सूरिः । (५) समागतः । (६) विमलाद्रितलहट्टिकायाम् । (७) व्याघुट्य । (८) समीपम् । (९) आनन्दपुरं भरतवासितनगरम् । (१०) पूर्वस्नेहात् । (११) दूरत्वं त्यक्त्वा समीपे समागतम् ॥२॥ नभोगमनभेषजव्रजविधेरैनुग्राहिणो, गुरोरभिधया पुरं गृहमिव त्रिलोकीश्रियाम् । "सुवर्णरससिद्धिान्विविधसिद्धविद्यान्वितः, स्म वासयति सन्निधौ नगवरस्य नागार्जुन: ॥३॥ (१) आकाशे गम्यतेऽनेनेत्येवंविधस्यौषधगणस्य निर्माणस्य । (२) अनुग्रहं करोतीत्येवंशीलस्य । (३) पादलिप्ताचार्यस्य । (४) नाम्ना । (५) त्रिभुवनलक्ष्मीना(णा)म् । (६) मन्दिरम् । (७) हेम्नः कोटिवेधीनाम्नो रसस्य-जलरूपस्य निष्पादनसिद्धियुक्तः । (८) नानाप्रकाराः सिद्धाः कार्यकारिण्योऽथ वा प्रत्यक्षीभूततदधिष्ठायकाः तादृश्यो विद्या आम्नायमन्त्रास्ताभिर्युक्तः । (९) वासितवान् । (१०) शत्रुञ्जयस्य । (११) समीपे । (१२) नागार्जुनो नाम योगी ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy