SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५१ पञ्चदशः सर्गः 'तावल्लीलाविलासं कलयति मलयो "विन्ध्यशैलोऽपि ताव द्धत्ते मत्तेभगर्वं तुहिनधरणिभृत्तावदेवाभिरामः । तावन्मेकैर्महत्त्वं वहति हरगिरिहते तावाभां, यावेत्तीर्थाधिराजः स न "नयनपुटैः "पीयते पर्वतेन्द्रः ॥७७॥ (१) तावत्कालप्रमाणम् । (२) लीलया स्वरसेन स्थानवैशिष्ट्येन वा विलासम् । (३) दधाति । (४) दक्षिणाचलः । (५) विन्ध्यशैलोऽपि समदगजाहङ्कारम् । (६) हिमाचलः । (७) रम्यः । (८) महिमानम् । (९) कैलाशः । (१०) शोभाम् । (११) सर्वतीर्थपर्वतपतिः । (१२) स्वदृशा । (१३) नावलोक्यत ॥७७॥ 'विविधकमलाकेलीगेहं क्षमाक्षणदापते 'हमिव महीकान्तारत्नावतंसमिवोन्नतम् । सफलमखिलं कर्तुं काङ्क्षन्जनुर्गिरियात्रया, “व्रतिवसुमतीशक्रः शत्रुञ्जयं 'स्वदृशा "पपौ ॥७८॥ इति पं.देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर)नाम्नि महाकाव्ये श्रीशत्रुञ्जयशैलवर्णनो नाम पञ्चदशः सर्गः ॥१५।। ग्र. १५० ॥ (१) मणी-स्वर्ण-रसकूपिका-औषधीविशेषादिनानाप्रकारलक्ष्मीलीलास्थानम् । (२) राज्ञ इव । (३) भाण्डागारोऽन्यद्वा धाम । (४) भूमीभामिन्या मणीनां शिखरमिव । (५) उच्चस्तरम् । (६) फलयुक्तं कर्तुं सर्वम् । (७) जन्म । (८) सूरीन्द्रः । (९) शत्रुञ्जयशैलम्। (१०) निजनयनाभ्याम् । (११) न्यभालयत् ॥७८॥ इति पञ्चदशः सर्गः ॥१५॥ ग्रं० २०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy