SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५० श्री हीरसुन्दर' महाकाव्यम् (१) सूर्यकिरणसङ्गो येषां तादृशेभ्यः सूर्यकान्तमणिभ्यः सर्वतो निष्पतनशीलस्य वह्नेज्ालाभिः कृत्वा । (२) रत्नप्रासादाः । (३) चतसृषु दिक्षु वह्नयः पञ्चमो भानुश्चेति पञ्चाग्निसाधनम् । (४) तापस इव ॥७२॥ 'निर्गत्वरप्रसृमरद्युतिवारिपूर पूर्णान्तरस्फटिककल्पितकूटकोटीम् । जज्ञे किमु प्रति तटं तटिनी 'विपाशा, प्रेक्ष्येत्यबुध्यत 'विमुग्धजनेन यस्मिन् ॥७३॥ (१) निस्सरणशीलास्तथा विस्तरणशीला याः कान्तयस्ता एव पयःप्लवस्तेन भरितमध्या स्फटिकरत्ननिर्मिता शिखराणां कोटिः । (२) जाताः । (३) तटं तटं प्रति । (४) विपाश्या( शा)नाम नदी । अनुत्सर्पिपया विपाशाज्जातम् । (५) अज्ञेन ॥७३॥ गुहागृहशयानानां, खगसारङ्गचक्षुषाम् । यत्र 'जागरयन्तीव, स्तनितैः स्तनयित्नवः ॥७४॥ (१) कन्दरामन्दिरेषु सुप्तानाम् । (२) विद्याधरवधूनाम् । (३) निन्द्रियन्तीव । (४) गर्जारवैः । (५) मेघाः ॥७४॥ स्वस्मिन्नेम्बरचारिणां प्रतिपदं कृत्वैकतानं मनो, _ विद्यां साधयतां स्वपुण्यमिव यः सिद्धीविधत्ते धरः । यस्मिन्क्वापि च योगिनामहरहर्ज्योतिः परं ध्यायतां, हृत्पद्मे परमात्मना प्रकटितं पूष्णेव पूर्वाचले ॥५॥ (१) आत्मकन्दरादिभूतले । (२) विद्याधराणाम् । (३) स्थाने स्थाने । ( ४ ) एकाग्रम् । विद्याध्यानलीनम् । (५) गौरी-प्रज्ञप्तीप्रमुखाः । (६) आत्मनः प्राचीनसुकृतमिव । (७) विद्यासिद्धीः । (८) पर्वतः । (९) कुत्रापि । (१०) योगभाजाम् । (११) प्रतिदिनम् । (१२) ब्रह्म ध्यायताम् । परममुत्कृष्टं परमेष्ठिलक्षणम् । (१३) हृदयकमले । (१४) परमात्म-स्वरूपेण । (१५) सूर्येणेव ॥७५॥ 'भृङ्गालिसङ्गिनीर्धत्ते, पद्मिनी: 'प्रतिपल्वलम् । यो नाराचचिताश्चाप-लता इव मनोभवः ॥७६॥ (१) भ्रमरमालायुताः । (२) प्रतिसरः । (३) बाणयुक्ताः । (४) धनुर्यष्टय इव । (५) स्मरस्य ॥७६॥ 1. अतः परं हीमु०पुस्तकस्थः ७७तमश्लोकोऽत्र नास्ति । 2. एषः श्लोक: हीमु०पुस्तके ७९तमत्वेन निर्दिष्टः । 3. नाराचोपचिता विश्व-जैत्रीश्चापलता इव । भृङ्गालिसङ्गिनीर्धत्ते पद्मिनीः प्रतिपल्वलम् ॥ हीमु० । 4. एषः श्लोकः हीमु० पुस्तके ७८तमत्वेन निदिष्टः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy