SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २४९ 1९ पौष्पं भोजयितं १२वराशनमिवाऽनेके द्विरेफाः समं, स्त्रीभिर्नागरिका इवोन्नततोऽऽमन्त्र्यन्त मन्यामहे ।।६८॥ (१) परिणयता । उदतिशयेन धारयता । (२) कुमारीम् । (३) वल्लीम् । ( ४ ) तरुणेनेव । (५) तरुणा । (६) निजपरिमलैः । (७) बन्धुभिः । (८) पुष्पैः । (९) रजतसम्बन्धिभिः । (१०) पात्रैः । (११) मकरन्दम् । (१२) प्रवरभोज्यमिव । (१३) भृङ्गीभिः । (१४) उच्चैःशिरस्तेन । (१५) आमन्त्रिता आकारिताः ॥६८॥ 'सिन्धूः सुता इव पिता त्वरमाणभावाः, "प्रोत्कण्ठिताः प्रदधती: सरसीजभूषाः । प्रास्थापयत्प्रति पतिं जलधि तरङ्गैः, __सत्राँङ्गरक्षकभटैरिव सिद्धशैलः ॥६९॥ (१) नदीः । ( २ ) पुत्रीरिव । (३) शीघ्रः पतिं प्रति गमने भावश्चित्ताभिप्रायो यासाम् । (४) औत्सुक्यकलिताः । (५) कमलानां शोभामाकलयन्तीः । (६) कल्लोलैः । (७) अङ्गरक्षाकृत्सुभटैरिव ॥६९॥ शशाङ्ककरसङ्गमक्षरदमन्दपाथःप्लवैः, क्वचिद्विधमणीमयः कलयति स्म सालः श्रियम् । 'प्रचण्डतरचण्डरुक्किरणतापसन्तापितः, 'प्रतिक्षिपमिवाऽमृतैः प्रविदधनिजेनाऽऽप्लवम् ॥७०॥ (१) चन्द्रकिरणसम्पर्काद्गलद्भिरमितपयःपूरैः । (२) कुत्रापि । (३) चन्द्रकान्तमणिनिर्मितः । ( ४ ) अतिशयेन प्रचण्डेन सोढुमशक्येन रविकान्तितापेन व्याकुलीकृतः । (५) रात्री रात्री प्रति । (६) जलैः । (७) प्रकर्षेण कुर्वन्निव । (८) आत्मना । (९) स्नानम् ॥७०॥ लीलायमानानिजमौलिदेशे, केशानिवोच्चैःप्रसरत्पयोदान । धूपायतीवोऽऽप्तनिकेतधूप-धूमैर्विलासीव स सिद्धशैलः ॥७१॥ (१) विभ्रमं वदतः क्रीडया चरतो वा । (२) निजस्य गिरेरात्मनः शिखरस्थले । (३) विस्तारं प्राप्नुवन्मेघान् । (४) सुगन्धीकरोतीव । (५) चेत्यागुरुदहनोद्भवधूमैः । (६) भोगीव ॥७१॥ 'अर्काशुसम्पर्किपतङ्गकान्ता-भितो विनिष्पातिहुताशहेतिभिः । मणीविहाराः प्रणयन्ति यस्मिन्, 'पञ्चाग्निकष्टं वचनाऽपि योगिवत् ॥७२॥ 1. प्रीत्या हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy