SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४६ श्री हीरसुन्दर' महाकाव्यम् (१) क्रीडात्म[र]सगजानां चपला भवन्तो ये कर्णतालाः । "उषसि गजयूथकर्णतालै"रिति रघुवंशे । तेषां समूहा एव वाद्यशब्दो यत्र तथा तादृशे भ्रमरमालागुञ्जारवरूपे उदारे गीते सति । (२) शत्रुञ्जये । (३) नाट्याचार्येणेव । (४) पवनेन । (५) अर्थान्नर्तक्य इव । (६) विपिनलताः । (७) पत्राण्येव-पवनपलात्वात् हस्तका यासाम् ॥५७॥ लुलितगगनगङ्गाशीकरासारवन्तः, 'स्मिततरुवनमाला मन्दमांन्दोलयन्तः । 'विकचकुसुमपद्मामोदमेदस्विनो यं, प्रभुमिव पवमानाः सेवकाः शीलयन्ति ॥५८॥ (१) पवनान्दोलिता या स्वर्गगङ्गा तस्याः शीकराणां जलकणानां आसारो वेगवती वृष्टिविद्यते येषु । (२) विकचद्रुमविपिनश्रेणीः । (३) शनैः शनैः । (४) चपलीकुर्वन्तः । (५) विकसितानां पुष्पाणां कमलानां च परिमलेन पुष्टाः । (६) स्वामिनम् । (७) वाताः ॥५८॥ प्रतिशिखरममुष्मिन्निस्सरनिर्झरौघा, असुरसुरपुरन्ध्रीकेलिनीरन्ध्रनीराः । नभसि 'निरवलम्बे प्रस्खलन्नाकिनद्याः, शतश इव भवन्तो वा:प्रवाहाः स्फुरन्ति ॥५९॥ (१) शृङ्ग [शृङ्गप्रति । (२) शत्रुञ्जये ।(३) निर्यनिर्झरव्रजाः । (४) दानवदेववनितानां क्रीडाभिनिर्भरभृतं जलं येषाम् । (५) निर्गतमालम्बनं यस्य । (६) निष्पतत्या गङ्गायाः । (७) शतसङ्ख्याः । (८) जायमानाः । (९) जलधारा इव ॥५९॥ स्फटिकललितमन्तः 'पद्मरागप्रगल्भं, मरकतमयशृङ्गं 'निर्झरै राजमानम् । "कलितकलबलाकाकालिकीवारिधारं, ध्वनिजितमिव सार्वं शीलदभ्रं बभासे ॥६०॥ (१) स्फटिकमणिभिर्मनोज्ञम् । (२) मध्ये । (३) रक्तोत्पलैर्भासमानम् । (४) नीलरत्नप्रधानं शिखरम् । (५) गिरिनिःसरन्नीरधाराभिः । (६) शोभमानम् । (७) धृता बलाकाविद्युज्जलधारा येन । (८) शब्दपराभूतो मेघः । (९) जिनम् । (१०) सेवमानम् ॥६०॥ 'क्वचिदपि रुचिचञ्चत्पद्मरागप्रगल्भं, .. मरकतमणिचङ्गोत्तुङ्गशृङ्ग चकासे । विजितमृषभभा 'धीरगम्भीररावै स्तप इव तनुतेऽस्मिस्तत्तुलाप्त्यै तडित्वात् ॥६०॥ पाठान्तरम् ॥ 1. ०सीकरा, हीमु०12. नभसि निरवलम्बप्रस्ख० हीमु०। 3. एषः श्लोकः हीमु०पुस्तके ६२तमश्लोकत्वेन निर्दिष्टोऽस्ति न तु पाठान्तरत्वेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy