SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २४५ खगपरिवृढपृष्ठाधिष्ठितारिष्टदस्यो रुपमितिमिह शैलाखण्डले लञ्चकार ॥५३॥ (१) स्मितैः पुष्पैः पीततया शोभमानहेमपुष्पकद्रुमस्योर्ध्वमामोदे लोभं प्राप्नुवतां चपलानां उत्कटानां भृङ्गाना( णां) श्रेणी । (२) गरुडवंशाश्रयविष्णोरुपमाम् । (३) गिरीन्द्रे । (४) अलङ्कृता । विष्णोरुपमा प्राप्तेत्यर्थः ॥५३॥ लिखितसुरपथाङ्कप्रस्थपुञ्जप्ररोह न्मसृणसरसघासग्रासवृत्तिं सृजन्तः । 'क्षुधितमृगतुरङ्गाः खेदयन्ति स्म नक्तं दिनमिदमुपरिष्टात्सञ्चरच्चन्द्रसूर्यौ ॥५४॥ (१) अग्रेण घृष्टो गगनोत्सङ्गो येन तादृशः शिखरव्रजस्तत्रोद्गच्छत्सुकुमालनीलतृणानां कवलेनाऽऽजीविकाम् । (२) कुर्वन्तः । (३) बुभुक्षाक्षामकुक्षिचन्द्रार्कमृगाश्वाः । (४) रात्रौ दिवा च । (५) शशिभास्करौ । (६) खेदयुक्तौ कुर्वन्ति ॥५४॥ वचन कनकशृङ्गे रङ्गिभृङ्गानुषङ्गि क्षरदमितमरन्दस्यन्दसन्दोहसान्द्राः । अलभत सखिभावं जम्भमाणां तमाला वलिरिह यमुनाया 'भास्वदङ्के भजन्त्याः ॥५५॥ (१) काञ्चनशिखरे । (२) रङ्गयुक्तानां भ्रमराणां सङ्गो येषु तादृशा निःसरन्तो मानातीता ये मकरन्दास्त एव निःस्यन्दा रसास्तेषां सन्दोहा राशयस्तैः सान्द्रा नि( नी )रन्ध्राः । (३) सख्यम् । (४) स्मिततापिच्छराजिः । (५) सूर्यस्य तातस्योत्सङ्गम् । (६) श्रयन्त्याः ॥५५॥ 'मरकतकटकाङ्कस्फाटिकानुच्चकूटो ___दरविदलितपुष्पप्रस्फुरच्चम्पकद्रुः । नरकदमननाभीपुण्डरीकाङ्कनिर्य ज्जलजतनुजलीलामाललम्बे कदम्बे ॥५६॥ (१) नीलरत्नमेखलामध्ये स्फटिकसम्बन्धि नात्युच्चं यत्छृङ्गं तस्य कुक्षौ विकचकुसुमचञ्चच्चम्पकतरुः । (२) कृष्णनाभिपुण्डरीकात्प्रकटीभवद्विधिविलासम् । (३) आश्रयते स्म । (४) कदम्बे-शत्रुञ्जयशैले ॥५६॥ रसिककरिविलोलत्कर्णतालौघतूर ध्वनिमधुकरराजीगुञ्जितोदात्तगीतौ । क्वचिंदिह गुरुणेव प्रेरिता मारुतेन, स्त्रिय इव वनवल्लयः पत्रहस्ता अनृत्यन् ॥५॥ 1. वयसीत्वं हीमु० । 2. स्थितायाः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy