________________
२४४
श्री हीरसुन्दर' महाकाव्यम् नायकयुक्तमुक्ताहारश्रियम् । (३) निशां निशां प्रति । (४) करोति ॥४९॥ अविरलमणिशृङ्गै कनाकिद्रुमैश्च,
त्रिदशमिथुनवृन्दैर्जातरूपश्रिया च । 'विविधसुरनिकुजैः सिद्धसौधैर्नृणां यः,
"श्लथयति सुरशैलप्रेक्षणोत्कण्ठि चेतः ॥५०॥ (१) बहुभी रत्नशिखरैः । (२) नानाप्रकारककल्पवृक्षैः । (३) देवयुग्मैः । (४) सुवर्णशोभया । (५) बहुविधदेवयुक्तवनैः । (६) सिद्धालयैश्चैत्यैः । (७) शिथिलीकरोति । (८) मेरुदर्शनोत्सुकम् । (९) मनः ॥५०॥ क्वचन करटियाना मेखलाशालमानाः,
कनककटकभाजो वारिमुक्केशपाशाः । 'विविधमणिविभूषाः पद्मिनीतालबाहा,
"विकचकुसुमनेत्रा बिम्बदन्तच्छदाश्च ॥५१॥ बहलमलयजन्मामोदिता मञ्जुपादा,
गुरुतरकुचकूटाः स्फारमुक्तावलीकाः । 'मदपटुपिकवाचश्चम्पकश्रेणिगौरा,
युवतय इव यस्मिन्भूमयो विस्फुरन्ति ॥५२॥ युग्मम् ॥ (१) गजानां स्वैरं गमनं यासु । पक्षे-गजवद्गमनं यासाम् । (२) मध्यभागेन कटकेन शोभमानाः । पक्षे-काञ्च्या दीप्यमानाः । (३) सुवर्णस्य कटकं मध्यभागोऽद्रेः कटकं वलयं चेति तद्भजन्तीति । (४) मेघ एव तत्तुल्यः केशपाशो यस्याः । (५) नानाप्रकारा मणय एव तेषां चाऽऽभरणानि यस्याः । (६) कमलानां नालानि एव तत्तुल्या भुजा यासाम् । “पद्मिनी कमलकमलिन्यो'"रित्यनेकार्थः । (७) स्मितानि पुष्पाणि एव तत्तुल्यानि च नयनानि यासाम् । (८) बिम्बीफलमेव तत्तुल्योऽधरो यासाम् ॥५१॥
(१) सान्द्रचन्दनैः परिमलकलिताः । (२) मनोज्ञाः पर्यन्तपर्वताश्चरणाश्च यासाम् । (३) अत्युच्चाः कुचतुल्याः कूटाः कुचरूपा वा शृङ्गा यासाम् । (४) दीप्यमाना मुक्ताश्रेणयो हारा यासाम् । (५) मदकलकोकिलानां तत्तुल्या वा वाचो यासाम् । (६) चम्पकश्रेणिभिस्तद्वच्च गौर्यः । (७) तरुण्य इव । (८) गिरिभुवः ॥५२॥ 'द्विः ॥ 'विकचकुसुमैचञ्चच्चम्पकक्षोणिजन्मो
परिपरिमललुभ्यल्लोलमत्तालिमाला ।
+ युग्ममित्यर्थे द्विः इति निर्दिष्टमस्ति । 1. ०मपीतस्फीतिमज्जातिजातो० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org