SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४३ पञ्चदशः सर्गः वक्राङ्गवतः । (५) ददाति । (६) कृपावान् । (७) शेषनागस्य ॥५॥ गगनगतयदग्रस्फारकासारफुल्ल त्कुमुदकुवलयाङ्काढ़ेङ्गरिञ्छोलिकाभिः । निशि शशिनमवेक्ष्याऽधावि मुग्धाभिरूचं, 'सुरसरिदलिलीलापुण्डरीकभ्रमेण ॥४६॥ (१) नभसि गतं यद्गिरिशृङ्गाय(पं) तत्र मनोज्ञसरसि विकसितानां कैरवोत्पलानामुत्सङ्गात् । (२) भ्रग्रमालाभिः । (३) चन्द्रम् । (४) धावितम् । (५) उच्चैरुत्पतितम् । (६) स्वर्गगङ्गाया भृङ्गाङ्कितक्रीडाकैरवभ्रान्त्या ॥४६॥ विकसितकुसुमालीकर्णिकालीनपीन ध्वनदनयनपेयामेयरोलम्बरावः । वचन रजतशृङ्गे चम्पकद्रुश्चकासे, कविरिव कृतवेदोद्गारहंसाधिरूढः ॥४७॥ (१) स्मेराणां कुसुमश्रेणीनां यस्मात्कारणात्कर्णिकासु-बीजकोशेषु लीना अथ च पीनास्तथा शब्दायमाना अत एवाऽनयनपेया-अदृश्या ये भ्रमरास्तेषां शब्दो यत्र । (२) रूप्यशिखरे । (३) विधाता । (४) निर्मितो वेदानामुद्गारमुच्चारो येन तथा राजहंसपृष्ठस्थः ॥४७॥ स्वकशिखरशिरःस्थां भृङ्गरङ्गत्कटाक्षां, 'विदलितदलनेत्री रागमन्तर्दधानाम् । "परमसुहृदिवाऽद्रिं पद्मिनी यो विविक्ते, ___ “समगमयदेभीशुस्वामिना कामिनेव ॥४८॥ (१) निजशृङ्गमौलिस्थिताम् । (२) भ्रमरैः कृत्वा चलन्तः पतिं सूर्य प्रति कटाक्षा यस्याः । (३) विकचपत्ररूपनयनाम् । (४) मध्येऽनुरागं धारयन्ती । (५) परममित्र इव । (६) स्त्रियं कमलिनी च । (७) एकान्ते । (८) सङ्गं कारयति स्म । (९) सूर्येण । (१०) कामुकेनेव ॥४८॥ 'विलिखितगगनाङ्कप्रस्थकण्ठावलग्न द्विजपरिवृढबिम्बालम्बिनक्षत्रमाला । तरलकलितमुक्तामालिकाशालिशोभां, 'प्रतिरजनि 'विधत्ते सिद्धभूभृन्मघोनः ॥४९॥ (१) घृष्टो व्योम्न उत्सङ्गो येन तादृशः शृङ्गस्योपकण्ठे-समीपेऽवलग्ना मिलिता यच्चन्द्रमण्डलं तथाऽऽलम्बत आश्रयतेऽर्थाद्विमलाद्रिशृङ्गाणि तादृशी नक्षत्रपतिः । (२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy