SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ श्री हीरसुन्दर' महाकाव्यम् माश्रयतीत्येवंशीलं स्वर्णमयं शृङ्गं यस्य । (२) प्रवाहमाननिर्झरजलः । (३) वार्षिकाम्बुवर्षणशीलः, स्फुरन्ती तडिद्यत्र तादृग्मेघम् ॥४१॥ क्वचिदपि लसदभ्रस्फाटिकोत्तुङ्गशृङ्गा ङ्गणधरणिचरिष्णूः मास्पृशां प्रेक्ष्य लक्षाः । इति मतिरुदयासी_नितम्बस्थितानां, किमिह चरति पङ्किः स्वैरमेषा सुराणाम् ॥४२॥ (१) कुत्राऽपि । (२) मनोज्ञाकाशस्फटिकरत्नानामुच्चैः शिखराजिरभूमीसञ्चरणशीलान् । (३) यात्रिकजनान् । (४) एवं विधा । (५) बुद्धिः । (६) उद्भवति । (७) शत्रुञ्जयमध्यभागस्थायिनाम् । तद्रत्नमयशृङ्गाणां दृग्गोचरत्वात् ॥४२॥ मलयगिरिरिवाऽसौ क्वापि काकोदराली कलितमलयसालनिर्यदामोदिवातैः । गलदमलमदाम्भः पतिसंसिक्तवृक्षैः, ___ क्वचिदपि गजयूथैर्विन्ध्यवद्यो विभाति ॥४३॥' (१) मलयाचल इव । (२) भुजगगणवेष्टितचन्दनैः । (३) प्रसरत्सुगन्धगन्धवाहैः । (४) क्षरद्विशुद्धमदजलमालासंसिक्ततरुभिः । (५) गजघटाभिः । (६) विन्ध्याचल इव ॥४३॥ क्वचन कनकरत्नाधित्यकादीप्रदीप्ति, 'दिनकरकरसङ्गाद्गाहमानां विहायः । सकलकुलगिरीन्द्रान् यः पराभूय भूत्या, कलयति किमु शैल: स्वेन मूर्त प्रतापम् ॥४४॥ (१) स्वर्णमणिरचितोर्श्वभूमीतलस्य दीप्यमानकान्तिम् । ( २ ) सूर्यकिरणसङ्गादतिवृद्धामत एवाऽऽकाशं व्याप्नुवन्ती । (३) कुलगिरीन् । (४) विभवेन । (५) आत्मना । (६) दृश्यमानम् । (७) प्रतापम् ॥४४॥ बलिनिलयनिकेतैरान्मनः स्थूलमूलै र्धरणिधरतया यो भूभृतां सार्वभौमः ।। 'निखिलजलधिनेमीभारभुग्नाङ्गभाजो, *दिशति किमु कृपालुर्विश्रमं भोगिभर्तुः ॥४५॥ (१) पाताले स्थानं येषाम् । (२) भूभृत्त्वेन । (३) गिरीन्द्रः । (४) समस्तभूमेरिण 1. अतः परं हीमु.पुस्तकान्तर्गत: ४४तमश्लोकोऽत्र नाऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy