SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४१ पञ्चदशः सर्गः क्वचिवहदंपाचीवीचिमालीव सेतु, ____ क्वचिदपि वसुराजीमिभ्यधामेव धत्ते । अपि दुरधिगमत्वं ब्रह्मवत्क्वाऽप्यधत्त, व्यधृत कनकसालं क्वाऽपि लङ्केव शैलः ॥३८॥ (१) धत्ते स्म । (२) दक्षिणसमुद्र इव । दक्षिणसमुद्रे रामेण सेतुर्बद्ध इति श्रुतिः । (३) मणिमालाम् । (४) दुष्प्रापत्वम् । (५) मोक्षवत् । (६) स्वर्णप्राकारम् । (७) रावणपूरिव ॥३८॥ स्फुटकटतटनिर्यदानपाथःप्रवाहै:, 'शिशुशिखरिसमूहान्सिञ्चदञ्चद्वनान्तः । क्वचिदपि करियूथं विन्ध्यधात्रीभृतीव, प्रणयति रतिकेली यत्र सत्रा कलत्रैः ॥३९॥ (१) प्रकटं कपोलस्थलनिर्गलन्मन्दाम्भःधाराभिः । (२) बालसालपटलान् । (३) अञ्चत्-गच्छत् । (४) विन्ध्याचले इव । (५) कन्दर्पक्रीडाम् ।(६) स्त्रीभिः । (७) सार्द्धम् ॥३९॥ त्रिदिवसदनभूभृत्सार्वभौमाध्वरोधो द्धरशिखरसहस्त्रैः पुण्डरीकावनीभृत् । धरणिमिव फणाभिश्चक्रिणां चक्रवर्ती, त्रिदिवमिव दिधीर्षुर्लक्षकैर्लक्ष्यते स्म ॥४०॥ (१) त्रिदिवसदना देवास्तेषां शैलो-मेरुस्तस्य सार्वभौमः-शक्रस्तस्याऽध्वा-मार्ग-आकाशस्तस्य रुन्धने उत्कटानां शृङ्गाना( णां) सहस्त्रैर्दशभिः शतैः । “जाम्बूनदोर्वीधरसार्वभौमः" । तथा"बहुविगाढसुरेश्वराध्वा" इति नैषधे । (२) शत्रुञ्जयगिरिः । (३) भुवम् । "धरणिविरहिणि क्लान्तमुद्रे समुद्रे" इति नाटके धरणिशब्दः इस्वोऽप्यस्ति । (४) शेषनागः । (५) स्वर्गम् । (६) धर्तुमिच्छुः । (७) दर्शयितृभिः ॥४०॥ 'विदलितदललीलाश्यामलीभूतभूमी रुहनिवहनितम्बालम्बिजाम्बूनदस्नुः । प्रसृतझरपयस्कः 'प्रावृषेण्याम्बुवर्षि स्फुरदचिरपयोदं योऽनुयातीव कान्त्या ॥४१॥ (१) विकसितपत्राणां विलासेन कृष्णीभूततरुव्रजा यत्र तादृशं गिरिमध्यभाग 1. ० दशनि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy