________________
२४०
श्री हीरसुन्दर' महाकाव्यम् 'कलितनिलयरत्नः "पृष्ठतिष्ठत्तमित्रो,
'दिननिधननिकेतापातिलोकोऽनुचक्रे ॥३४॥ (१) उदीयमानेन सूर्यमण्डलेन । (२) एकस्मिन्पार्वे । ( ३ ) निशासम्बन्धि अरुणभयाद्विश्वान्निःसरत्तमिस्रप्रकरेण । (४) हस्ते कृतप्रदीपः । (५) पृष्ठे मुक्तस्थाने वर्तमानमन्धकार यस्य । (६) दिवसावसाने सन्ध्यायां स्वगृहागमनशीलजनः । (७) अनुकृतः-सदृशीकृतः ॥३४॥ क्वचिदपि कमलानामात्मनोऽक्षीणभावं,
'त्रिजगदनिशदानेनाऽप्यंयाच्यत्वमन्यत् । किमु विवरिषुरेष प्रावृषेण्याम्बुवाहो,
*वशदविमलशैलं शीलति स्माऽञ्जनौघः ॥३५॥ (१) पानीयानां श्रियांश्च । (२) अक्षयत्वम् । (३) त्रिभुवनजनानां नित्यविश्राणने नाऽ]पि । “अनिशतापमिषादुदसृज्यते'"ति नैषधे । (४) अयाचनीयताम् । (५) याचितुमिच्छुः । (६) वार्षिकमेघः । (७) कामितदायिनं शत्रुञ्जयम् । 'तृष्णा लिप्सा वशस्पृहे'ति हैम्याम् । (८) अञ्जनवृक्षव्रजः ॥३५॥ असुरसुरनराणां श्रेणिभिः सप्रियाणां,
स 'शिखरिपृतनाषाड् भूष्यते 'स्माऽविशेषम् । 'भुजगभवनदेवावासविश्वंभराणां, .
"समर्मखिलविभूषादित्सयेवोत्सुकाभिः ॥३६॥ (१) प्रियायुक्तानाम् । (२) गिरीन्द्रः । (३) निर्विशेषम् । ( ४ ) पातालस्वर्गभूमीनाम् । (५) समकालम् । (६) समस्तशोभानां दातुमिच्छया । (७) उत्कण्ठिताभिः ॥३६॥ मरकतशिखराणां पद्मरागोदराणां,
दिशि दिशि जलधारोगारिनिर्यज्झराणाम् । क्वचिदुपरि नमन्तश्चञ्चला केलिमन्तो,
___ "ध्वनिभिरिह पयोदा जज्ञिरे "वृष्टिमन्तः ॥३७॥ (१) नीलमणीमयशृङ्गाणाम् । (२) रक्तमणयो गर्भे येषाम् । (३) सर्वदिक्षु । (४) पयःप्रवाहानुद्गिरन्तीत्येवंशीलास्तथा निःसरन्तो निर्झरा येषु ।(५) उन्नतिभाजः । (६) विद्युद्विलासशालिनः । (७) गर्जाभिः । (८) इह शत्रुञ्जये । (९) ज्ञाताः । (१०) मेघाः । (११) वर्षन्तोऽपि ॥३७॥ 1. निर्विशे. हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org