SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३८ श्री हीरसुन्दर' महाकाव्यम् स्मितकदलीमञ्जुलदलैः । (५) मृगचर्मव्यजनैरिव । (६) वातचपलैः ॥२६॥ गलदमलमरन्दोन्मादिरोलम्बरावा कुलकलदलमालोन्निद्रसान्द्रुमौघः । रणरणकितचेता वेश्मनीवाऽत्र तस्थौ, मुदिर 'इव 'रिरंसुर्योषिता विद्युतेव ॥२७॥ (१) निष्पतद्विशदमकरन्देषून्मदानां गुञ्जाभिराकुला निर्भरभृता प्रधानपत्रपतिर्येषां तादृग्विकसितनिबिडवृक्षव्रजः । (२) उत्सुकितमनाः । (३) स्वसद्मनीव । ( ४ ) मेघः । (५) रन्तुमिच्छुः । (६) कान्तया । (७) तडिता ॥२७॥ 'मदमुदितमृगेन्द्रारब्धरावाः प्रतिश्रु न्मुखरितशिखरौघा मेघघोषद्विषन्तः । 'विमलधरणिभर्तुर्विश्वतीर्थेश्वरत्वा भ्युदितहृदवलेपैहुँकृतानीव भान्ति ॥२८॥ (१) क्षीबतया हृष्टसिंहैः प्रारब्धशब्दाः । (२) प्रतिशब्दैर्वाचालीकृतशृङ्गराशयः । (३) मेघगर्जितवैरिणः । (४) शत्रुञ्जयशैलस्य ।(५) सकलतीर्थनायकत्वेनाऽऽविर्भूतमतो मध्याहङ्कारैः । (६) हुङ्कारा इव ॥२८॥ 'निकटविटपिपत्रिव्रातवातप्रपाति स्मितकिसलयपुष्पान्क्लृप्ततल्पानिवाऽत्र । सुखमनिमिषलेखाः सन्निषण्णैणनाभी सुरभिमणिशिलाङ्कान्सङ्गिनाः संश्रयन्ते ॥२९॥ (१) समीपवृक्षेभ्यो विहङ्गमगणपक्षवातैः प्रकर्षेण पतनशीलानि विकसितपल्लवपुष्पाणि येषु । (२) रचितपल्यङ्कानिव । (३) सुखेन । (४) देवराजी । (५) उपरि उपविष्टानां कस्तूरिकामृगाणां नाभीभिः-कस्तूरिकोत्पत्तिस्थानं तुन्दकूपिकाभिः सगन्धान् रत्नशिलोत्सङ्गान् । "निषण्णमृगनाभिभि"रिति रघुवंशे । (६) सस्त्रीकाः ॥२९॥ क्वचिदपि सरिदम्भो गाहितुं साग्रहेण, द्विरदसमुदयेनोन्मादिनाऽस्मिन्दिदीपे । 'कुलिशशयभयोनिष्टवाद्धिप्रविष्टा खिलशिखरिविभूषामिच्छताऽऽच्छेत्तुमूहे ॥३०॥ 1. इव रिरंसुर्विद्युतात्मीयपन्या हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy