SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः 'उपरि परिसरद्भिः पद्मरागाश्मगर्भ - स्फटिकघटितशृङ्गव्रातजातांशुपूरैः । अपि "नभसि 'भुवीव 'ब्रह्मभूभानुपुत्री, त्रिदशजलधिगानां यस्तनोतीवँ सङ्गम् ॥२३॥ (१) उच्चैः । ( २ ) विस्तरद्भिः । ( ३ ) रक्तमणिमरकतस्फटिकमणि कल्पितशिखरगणप्रोद्भूतज्योतिःपुञ्जः । (४) आकाशेऽपि । (५) भूमाविव । ( ६ ) सरस्वती - यमुना - गङ्गानाम् । (७) सङ्गमं करोति । त्रिवेणीसङ्गम इति ॥२३॥ 'क्वचिदपि मुचकुन्दो मन्दनिस्यन्दवृन्दस्मितसुमविशदश्री राज प्रस्थसंस्थः । "समदसुरभिसूनोः पृष्ठ्यधिष्ठानभाजो, " भसित॑ललितमूर्त्तेः प्राप शम्भोर्विभूषाम् ॥२४॥ ( १ ) कुत्रापि । ( २ ) कुन्दद्रुमः । ( ३ ) बहलरसप्रकरो येषु तादृग्विकचकुसुमैः श्वेतशोभः । (४) रूप्यशृङ्गप्ररूढः । (५) मदकलवृषभपृष्ठाश्रयवतः । ( ६ ) भस्मोद्धूलनतनोः । ( ७ ) ईश्वरस्य । (८) शोभाम् ॥२४॥ 'अनणिममणिमालाशालिनी यस्य सिन्धुः, प्रतिफलितविवस्वद्दीप्तिदुष्प्रेक्षणीया । सुकृतभरितजन्तोर्गर्भमन्तर्वहन्ती, २३७ युवतिमनुकरोति स्मेरदम्भोरुहास्या ॥२५॥ Jain Education International (१) न विद्यते लघुता यत्र तादृशमणीनां धोरणी, तया शोभनशीला । ( ( २ ) प्रतिबिम्बितसूर्यकान्त्या दुःखेन द्रष्टुं योग्या । ( ३ ) पुण्योपचितजीवस्य । ( ४ ) कुक्षौ । (५) सदृशीभवति । (६) विनिद्रत्कमलरूपानना स्मेरपद्मवन्मुखं यस्याः । " स्मेरदम्भोजखण्डाभि"रिति पाण्डवचरित्रे ॥ २५ ॥ 'वृषभजिनगुणौघान्गायतः 'स्वक्कणस्या ३ ऽनुगुणरणितवीणान्किन्नरेन्द्रागिरीन्द्रः । वचन विकचमोचाचारुपत्रैर्धवित्रै रिव पवनविलोलैर्वीजयामास मन्ये ॥ २६॥ (१) ऋषभदेवगुणगणान् । ( २ ) स्वध्वनेः । ( ३ ) सदृशी वादिता वीणा यै: । ( ४ ) 1. ० लसित० हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy