SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २३५ स्र्फटिकघटितशृङ्गोत्सङ्गसङ्गीतरङ्गी भवदलिकुलशाली चम्पकः पुष्पपीतः । दशशतनयनस्याऽध्याश्रितस्वःकरणोः, कलितकनककान्तेः कान्तिमादान्मघोनः ॥१६॥ (१) श्वेतरत्ननिर्मितशिखरकोडे सङ्गीते-गानेऽथ झङ्काररवरङ्गयुक्तैर्भवद्भिः भ्रमरभरैर्भ्राजमानः । (२) पुष्पैः कृत्वा पीतः - पिञ्जरः । स्वर्णरुचिर्जातः । (३) इन्द्रस्य । (४) आश्रितैरावतस्य । (५) सुवर्णवर्णस्य । (६) शोभाम् । (७) जग्राह । (८) इन्द्रस्य । सहस्रनेत्रस्य ॥१६॥ अपि 'धृतसुरसिन्धु गरङ्गी सदुर्गः, सवृषमुषितकालः केकियानं दधानः । धृतशशधरचूडो नीरमुनीलकण्ठः, शिव इव घनयानो भाति मृत्युञ्जयाद्रिः ॥१७॥ (१) कलिता देवाः चतुर्दश शत्रुञ्जया-ऐन्द्री-ब्रायो महानद्यो येन । पक्षे-गङ्गा । (२) नारङ्गा वृक्षविशेषाः सन्त्यस्मिन्निति । पक्षे-शेषनागे रङ्गोऽस्याऽस्तीति । (३) सह कोट्टैः पार्वत्या च वर्त्तते यः । (४) सह धर्मेण वृषभेन(ण) च वर्त्तते यः । पुण्यराशिरित्यभिधानत्वात् । (५) निर्दलितो यमो दैत्यविशेषश्च येन । मुक्तिदायकत्वान्मृतिहन्ता ।(६) मयूराणां गमनं स्वामिकार्तिकं च । (७) कलितश्चन्द्रः शिखरे मस्तके च येन । (८) मेघेन तद्वच्च कृष्णा कन्धरा यस्य । (९) मेघानां गमनानि यत्र । पक्षे-मेघवाहनः ॥१७॥ स्वकशिखरशिखाङ्कस्थायुकोन्स्वैकतानान्, 'कमलमृदुलदेहांस्तापितांस्तापनेन । सुखयितुमिव शैत्यैः सिद्धशैलोऽङ्गभाजो, बहलजलमुचोच्चैरातपत्रं तनोति ॥१८॥ (१) निजशृङ्गाग्रोत्सङ्गस्थायिनः । (२) स्वस्मिन्नेकतानीभूतान् । (३) पद्मसुकुमालशरीरान् । (४) सूर्यातपेन तप्तीकृतवान् । (५) सुखीकर्तुमिव । (६) शीतलताभिः । (७) शत्रुञ्जयः । (८) जन्तून् । (९) घनघनेन । (१०) छत्रम् ॥१८॥ स्वभवविभवभूम्ना लम्भितेनाऽभिभूति, 'त्रिदशशिखरिमुख्याशेषशैलव्रजेन । किमु विमलगिरीन्दो रूप्यरत्नार्जुनाङ्गा, "निजनिजशिखरौघाः प्रापिताः प्राभृतत्वम् ॥१९॥ 1. सङ्गी तरङ्गी० हीमु० । टीकाऽप्येवमेव कृताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy