________________
२३४
श्री हीरसुन्दर' महाकाव्यम् विधुमणिरविदीपान्जेतुमभ्यागतैर्यः,
किमभिलषितदायी सेव्यमानस्तमोभिः ॥१२॥
(१) अतिघनसलिलपूरितत्वेन मन्दं गामिनीभिरभ्रिकाभिः ।(२) शृङ्गश्रेणीसंश्रयणीभिर्मेघमालाभिः । (३) चन्द्ररत्नसूर्यप्रदीपास्वरिपून् । (४) पराभवितुमुपागताभिः । (५) कामितं दातुं शीलमस्य । (६) उपास्यमानः ॥१२॥ 'जडिमशितिमवर्षायुष्कलोलस्वभावो
द्धरसमिरविरोधोदन्वदभ्यर्थनाद्यम् । निजमखिलर्मसातं 'हार्तुमब्दैः समेत्या
निशनिवसनदम्भातिक तपस्तप्यतेऽस्मिन् ॥१३॥ (१) जडिमा अज्ञानं जलमयत्वं, वर्षाकालं यावदायुष्कं-जीवितव्यम् । 'शरद्घनात्यय' इति श्रुतेः । अस्थिरस्वभावताम् - 'पर्जन्यश्चपलाशय' इति श्रुतेः । वायुना सह विरोधं सागराज्जलाभ्यर्थना । “अब्दैर्वारिजिघृक्षयाऽर्णवगतै" रिति खण्डप्रशस्तौ । (२) दुःखम् । (३) त्यक्तुम् । (४) मेघैः । (५) निरन्तरवासव्याजात् । वर्षानन्तरं हि वारिदाः क्वापि गिरौ वसन्तीति श्रुतेः ॥१३॥ 'त्रिदिवसदनमार्गोत्सङ्गरङ्गत्तरङ्गै
मणिचितचयचञ्चद्रोचिषां सञ्चयैर्यः । धुनिशमिह निजाङ्कस्थायुकानां चिकीर्षुः,
किमु शरणधुरीणः शाश्वतं सुप्रभातम् ॥१४॥ (१) आकाशकोडे प्रचलत्कल्लोलैः । (२) रत्नखचितप्राकारस्य दीप्यमानदीप्तीनाम् । (३) गणैः । (४) स्वोत्सङ्गसंस्थानां स्वसमीपस्थायिनां वा स्वापत्यानामिव । (५) कर्तुमिच्छुः । (६) शरणे साधुः । (७) अनश्वरम् ॥१४॥ घनलसदपकण्ठा रुक्मरूप्यद्विभागा,
पतदुपरिझराम्भा भाति कुत्राऽपि भित्तिः । तनुरिव पुरदस्योः स्यूतशैलाङ्गजाङ्गा,
"श्रुतशितिगलनाला स्वःस्रवन्ती "श्रयन्ती ॥१५॥ (१) मेघेन दीप्यमानसमीपम् । मेघवत् शोभमानं नीलत्वात्कण्ठसमीपे यस्याः । (२) स्वर्णरूप्ययोद्वौ प्रदेशौ पूर्वापरौ भागौ यस्याः । (३) क्षरत् मस्तके निर्झरवारि यस्याः । (४) प्रोतं सीवितं अर्धाङ्गे करणात्पार्वत्याः शरीरं यया । (५) आश्रितं श्यामं कण्ठपीठो( ठं) यया। (६) गङ्गाम् । (७) धारयन्ती ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org