SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २३३ (१) वरुणशक्रकान्तादिग्गिर्योरस्तोदयाचलयोः शिखरालम्बनशीलमण्डलौ । “वरुणगृहिणीमाशामासादयन्तममुं रुची"ति । तथा- "निजमुखमितः स्मेरं धत्ते हरेमहिषीहरिदि"ति नैषधे । (२) प्रातःकाले । (३) रूप्यस्वर्णदीप्यमानकर्णाभरणे । (४) शत्रुञ्जयलक्ष्म्याः । (५) शशिभास्करौ ॥८॥ 'निखिलभुवनभारोद्धारनिर्वेदभाजा, भुजगपरिवृढेनोऽनेकविज्ञप्तिकाभिः । भरभरणधुरीणोऽशेषनीरेशनेमेः किमयमिह महीध्रः कारितो “विश्वका ॥९॥ (१) समस्तविश्वभारवहनात्खेदवता । (२) शेषनागेन । (३) अतिबहुविज्ञपनैः । (४) भारोद्धरणधौरेयः । (५) सर्वभूमेः । (६) गिरिः । (७) निर्मापितः । (८) धात्रीकर्ता ॥९॥ 'सुरपथपथिकैतत्प्रस्थसंस्था नेभोगाः, शशभृदपरभागं प्रेक्ष्य साक्षान्निरङ्कम् । किमयमिदमुपास्ति 'नित्यमभ्येत्य कर्व नजनि "विगतलक्ष्मेत्यन्तरध्याहरन्ति ॥१०॥ (१) नभोमार्गस्य पान्थे गिरिशिखरे संस्थिताः । अत्युन्नतशैलसानुस्था इत्यर्थः । (२) खेचराः ।(३) चन्द्रस्याऽन्यमुपरितनं प्रदेशम् । (४) साक्षात्स्वचक्षुषा दृष्ट्वा ।(५) निर्लाञ्छनम्। (६) अयं चन्द्रः । (७) शत्रुञ्जयसेवाम् । (८) अनिशम् । (९) आगत्य । (१०) गतकलङ्कः । (११) अन्तर्मनसि । (१२) वितर्कयन्ति ॥१०॥ 'भुजगभवनमध्यं व्याप्नुवन्स्थूलमूलै ___दिवमपि शिखरैः स्वैर्भूघनेनाऽपि भूमीम् । इति विमलमहीभृद्भूर्भुवःस्वस्त्रयीं यो, हरिरिव निजपादैः स्वात्मनाऽऽक्रम्य तस्थौ ॥११॥ (१) पातालमध्यं पातालमूलम् । कैलाश इत्यभिधानत्वात् । (२) आकाशं स्वर्ग च। (३) वपुषा । (४) त्रैलोक्यम् । (५) नारायण इव । (६) स्वैस्त्रिभिश्चरणैः बलिबन्धावसरे क्रमत्रयमितां भूमी याचितवान् । तदवसरे च क्रमत्रयेण त्रैलोक्यमाक्रान्तवांस्तदा बलिर्बद्धः । (७) निजस्वरूपेण ॥११॥ 'बहलसलिलपूर्णातूर्णयानाधिकाभिः, स्फुरति 'शिखरमालालम्बिकादम्बिनीभिः । 1. ०मुपास्ते हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy