________________
२३२
श्री हीरसुन्दर' महाकाव्यम् (१) दर्शनार्हाम् । (२) तनुलताम् । 'स्याहेर्भूयः फणसमुचितः काययष्टीनिकाय" इति नैषधकाव्ये ।(३) पुण्यपुञ्जः । (४) भरतक्षेत्रनराणाम् ।(५) समस्तदेशशोभां मुष्णातीत्येवंशीलस्य सौराष्ट्रस्य श्रियः । (६) यत्पर्वतकपटात् ॥४॥ 'अमितरजतरत्नस्वर्णशृङ्रेसङ्ख्या
· निमिषशिखरिखण्डैः स्वःसदा सद्मभिश्च । त्रिजगदुपरिभूमीलम्भिना येन मेरु
विजित इव बभूव व्रीडयाँऽनक्षिलक्ष्यः ॥५॥ (१) प्रमाणातीतै रूप्यमणिस्वर्णशिखरैः । (२) सङ्ख्यारहितकल्पद्रुवनैः । (३) देवभुवनैः । (४) मेरुस्तु रत्नसानुः चतुर्वनश्च । एकं सुरगृहं स्वर्गं धत्तम् "दिवमङ्कादमराद्रिरागता"मिति नैषधे । स्वप्रमाणोच्चप्रदेशं प्रापयति च । (५) त्रैलोक्योर्ध्वभूमी लोकाग्रस्थानं प्रापयतीत्येवं शीलेन । (६) लज्जया । (७) अदृश्यः ॥५॥ 'शिखरमणिविनिर्यज्योतिरुज्जृम्भमाणा
अनविपिनविनीले व्योम्नि यस्या बभासे । अतुलचटुलभावं स्वं परित्यज्य नित्यं,
तडिदिव निवसन्ती वल्लभाम्भोधराङ्के ॥६॥ (१) शृङ्गरत्नेभ्यो निःसरत्कान्तिः । (२) विनिद्राञ्जनद्रुममेचके । (३) बहुचपलस्वभावम्। (४) आत्मीयम् । (५) मुक्त्वा । (६) विद्युत् । (७) भर्तुर्मेधस्योत्सङ्गे ॥६॥ क्वचिदपि कलधौतप्रस्थसंस्थानगाहि
प्रवहदविरलाम्भोनिर्झरस्फारधारा । 'तुहिनशिखरिशृङ्गोत्सङ्गरङ्गत्प्रवाह
द्युसदधिपनदीवाऽद्वैतशोभां बभार ॥७॥ (१) रजतशृङ्गमेव स्थानमाश्रित्य प्रकर्षेण प्रसरबहुजलं यत्र तादृशां निर्झराणामुदारा वारिधारा । (२) हिमाचलशृङ्गोत्सङ्गे चलत्प्रवाहा स्वर्गनेव । “सुरेन्द्रतटिनीतीरे" इति भोजप्रबन्धे । (३) अनन्यशोभाम् ॥७॥
जलधिभवनजम्भारातिसारङ्गचक्षु
दिगवनिधरमू लम्बिबिम्बौ दिनादौ । रजतकनकराजत्कर्णपूराविवैत
___ द्विमलगिरिरमायाः पुष्पदन्तौ विभातः ॥८॥ 1. 'स्याहोर्भूयः कणसमुचित: काययष्टीनिकाय' इति नैषधे हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org