SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ऐं नमः ॥ अथ पञ्चदशः सर्गः ॥ अथ सुहृद इव स्वं सारवस्तु प्रदत्तं, प्रमुदितहृदयेनाकब्बरोर्वीमघोना । 'श्रमणधरणिभृत्तल्लाभमांदातुकामो, विमलशिखरिरत्नं प्रेक्षितुं काङ्क्षति स्म ॥१॥ (१) मित्रस्येव । (२) स्वकीयम् । (३) सम्यक्पदार्थं धनरूपं वस्तु वा ।(४) हृष्टमनसा । (५) नृपेण । (६) सूरिराजः । (७) तस्माद्विमलगिरेरधिकं लाभं - सुकृतफलम् । (८) ग्रहीतुकामः । (९) शत्रुञ्जयं पर्वतेषु रत्नतुल्यम् ॥ 'विदलयितुमिवान्तर्वैरिषड्वर्गमुच्चै 'विधिवर्दूपचरद्भिः षड्विधीन्ब्रह्ममुख्यान् । प्रति विमलगिरीन्द्रं भव्यलोकैः परीतो, "व्रतिपतिरथ यात्रा कर्तुकामः प्रतस्थे ॥२॥ (१) हन्तुम् । (२) अन्तरङ्गवैरिणं-क्रोधमानमायालोभरागद्वेषरूपाणां वैरिणां वर्गम् । (३) अतिशयेन । मूलादित्यर्थः । (४) आगमोक्तप्रकारैः । (५) सेवमानैः । (६) षट्सङ्ख्यान्। (७) प्रस्तरान् । (८) ब्रह्मचर्यं मुख्यं येषु । 'छहरी'ति लोकप्रसिद्धान् । (९) भविकजनैः । (१०) परिवृतः । (११) हीरसूरिः । (१२) प्रचचाल ॥२॥ नगरनिगमदुर्गग्रामसारामसीमा गहनगुरुगिरीन्द्राँल्लेश्मानः क्रमेण । किममृतकमलाया: केलिशैलं 'धरायां, "श्रमणधरणिशक्रः ‘सिद्धिशैलं ददर्श ॥३॥ (१) पुराणि, प्रभूतवणिक्थानानि-निगमान्, कोट्टान्, ग्रामान्, उद्यानयुक्तसीमाः, वनानि, महतः पर्वतांश्च । (२) अतिक्रामन् । (३) परिपाट्या । (४) सिद्धिलक्ष्म्याः । (५) क्रीडापर्वतम् । (६) भूमौ । (७) सूरिः । (८) सिद्धाचलम् ॥३॥ नयनपुटनिपेयामाश्रयन्कोययष्टी, किमु सुकृतसमूहो भारतक्षेत्रभाजाम् । 'निखिलविषयभूषामोषिसौराष्ट्रलक्ष्म्या, यदवनिधरदम्भाच्चारुचूडामणिर्वा ॥४॥ १. क्षमायां हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy