________________
२३०
श्री हीरसुन्दर' महाकाव्यम् त्रैलोक्यस्तुतिपारवर्त्तिविभवां संस्तोतुमेतां 'गुरुः, सञ्जज्ञे गतगौरवः कविरपि प्रापोऽकवित्वं पुनः ॥३००॥
(१) एतां सूरिकीर्तिम् । (२) कर्णावतंसिकां कर्णपूराम् । नैषधे यथा- विदर्भसुभ्रूश्रवणावतंसिके''ति । (३) कुर्वन् । (४) जगत्करणात् । (५) व्यग्रत्वेन । (६) कुम्भकारमेव । (७) आत्मानम् । (८) ब्रह्मा । (९) त्रिभुवनस्य स्तवनस्य पारे वर्त्तते इत्येवंशीलः । अगोचर इत्यर्थः । एवंविधो विभवो यस्याः । (१०) कीर्तिम् । (११) बृहस्पतिः । (१२) गता गुरुता माहात्म्यं वाचस्पतिता वा यस्य । (१३) शुक्रोऽपि । (१४) मूर्खतां-अज्ञताम् । (१५) लेभे ॥३०॥ 'निविण्णा इव जज्ञिरे श्रवणतस्तस्या मदप्रोद्धर
स्वाशासिन्दुररुन्धनादहरहः स्वान्ते महेन्द्रों दिशाम् । 'निद्रामुद्रितलोचनं जलनिधौ "निध्याय 'ता_ध्वजं,
'स्वच्छन्देन्दुमुखीव तां प्रतिगृहं शुश्राव सिन्धोः सुता ॥३०१॥ (१) खिन्ना इव । (२) जाताः । (३) अनाकर्णनात् । (४) सूरिकीर्तेः । (५) मदोन्मत्तनिजदिग्गजानां रुन्धनात्स्वस्थीकरणात् । (६) नित्यम् । (७) चित्ते । (८) दिक्पालैः(लाः) । “पतिः प्रतीच्या इति दिग्महेन्द्रै"रिति नैषधे । (९) निद्रया मीलितनयनम् । (१०) (११) नारायणम् । (१२) स्वेच्छाचारिणी वनितेव । (१३) सूरिकीर्तिम् । (१४) गृहे गृहे (१५) लक्ष्मीः ॥३०१॥ 'स्वच्छन्दं त्रिजगद्विलासरसिकां कीर्ति व्रतिक्ष्मापतेः,
सन्दृब्धोद्धरतानगानवनितावक्त्रामृतर्चिःसुधाम् । सोत्कण्ठं 'पिबतार्मकुण्ठमनसां विश्वत्रयीजन्मिनां,
प्राप्तानुत्तर सम्मदा इव तदा संजज्ञिरे 'वासराः ॥३०२॥ इति पं. देवविमलगणिविरचिते श्रीहीरसौभाग्य(सुन्दर)नाम्नि महाकाव्ये अकब्बरगोष्ठी-मृगयानियमनसकलजन्तुजातसातनिर्विशनाशीर्वचन-तीर्थयात्रा-गूर्जरागमना-ऽमारि-जीजिया-शत्रुञ्जयशैलार्पणदिफुरमानप्रदानादिवर्णनो नाम चतुर्दशः सर्गः ॥१४।। ग्रन्थाग्र० ४७५।।
(१) स्वेच्छया । (२) त्रैलोक्येऽपि क्रीडाकारिणीम् । (३) रचितातिशायितानां युक्तगानं याभिस्तादृक्स्वकान्तावदनचन्द्रामृतम् । (४) सहोत्कण्ठया वर्तते यत्तत् । (५) सादरं श्रृण्वताम् । (६) तदेकतानचित्तानाम् । (७) त्रैलोक्यजनानाम् । सुरासुरनराणामित्यर्थः । (८) लब्धासाधारणाह्लादा इव । (९) तस्मिन्नवसरे । (१०) दिनाः । (११) जाताः ॥३०२॥
चतुर्दशः सर्गः ॥१४॥ ग्रन्थाग्र० ७००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org