________________
चतुर्दशः सर्गः
२२९ "सिद्धा ‘रोधसि सिद्ध सिन्धुसुदृशो "योषानुषङ्गा 'जगू, 'रङ्गत्तुङ्गतरङ्गसङ्गजरवैः स्थानं ददत्या इव ॥२९७॥
(१) वयमेवं जानीमः । (२) मेरुगुहाभिः । (३) प्रतिशब्दैः । (४) उत्साहमुत्कण्ठां प्रापिताः । (५) किन्नरीभिर्निर्मितमनुवदनं - समं गानं येषाम् । (६) वीणया गायन्ति स्म । (७) देवविशेषाः । (८) तटे । (९) स्वर्गगङ्गायाः । (१०) स्त्रीणां सङ्गो येषाम् । स्त्रीसखा इत्यर्थः । (११) गायन्ति स्म । (१२) चलन्तो ये अत्युच्चा ये कल्लोलास्तेषां परस्परसङ्गमादुत्थितशब्दैः। (१३) स्वयं पूरयन्त्याः । अथवा जिगासतां हि पूर्वं स्थानं दीयते पश्चाद्गायनो गायतीति गीतिरीतिः ॥२९७॥ कीर्तिस्वःसरिदद्रियत्पिबजनानुर्व्या स्तुवन्त्यो मुहुः,
स्वर्गे स्वर्गिमृगीदृशो 'निजजनिं निन्दन्ति मन्दाशयाः । 'मोहात्प्राक्परिकल्पितप्रियतमार्दाङ्गानुषङ्गादिमां,
श्रोतुं 'क्वापि न गन्तुमीश्वरतयों स्वं "शैलीक्रोशति ॥२९८॥ (१) कीर्तिरूपायाः स्वर्गङ्गाया अद्रिमाद् हिमाचलं, एवंविधं यं हीरसरि सादरं पश्यतीति तादृशान् जनान् । (२) भूमण्डले जातान् । (३) प्रशंसन्त्यः । (४) वारं वारम् । (५) देवाङ्गनाः । (६) स्वावतारम् । (७) मूढमनसः । (८) अज्ञानात् । “सोऽहं हंसायितुं मोहादिति चम्पूकथायाम् । मोहशब्देनाऽज्ञानम् । अथ च स्नेहात् । (९) पूर्वं कृतकान्तार्द्धशरीरसङ्गात् । स्वार्द्ध शरीरं हराङ्गेन स्यूतमतोऽर्धाङ्गी गौरीरिति प्रसिद्धिः । (१०) कीर्तिम् । (११) कुत्राऽपि । (१२) भर्तुरर्द्धाङ्गसङ्गादसमर्थतया । (१३) आत्मानम् । (१४) पार्वती । (१५) हा ! मया वृथैव हराङ्गेनाऽङ्गं स्यूतमिति गर्हते ॥२९८॥ यत्कीर्ति नरनिर्जरोरगवधूप्रारब्धनूत( ल )स्तुति,
श्रुत्वोऽस्यामनुरागितां त्रिभुवने बिभ्रत्येदभ्रां हृदा । शर्वाणीरमणस्तदश्रवणतो “मूर्द्धस्थसिद्धापगां,
कुर्वाणां बधिरत्वंमुद्धररवस्तारङ्गजैगर्हति(ते) ॥२९९॥ (१) सूरिकीर्तिम् । (२) मानवदेवनागाङ्गनानिर्मिताभिनवस्तवनाम् । (३) कीर्ती । (४) रागयुक्तताम् । (५) बह्वीम् । (६) हरः । (७) तस्याः कीर्तेरनाकर्णनात् । (८) शिरःस्थितगङ्गाम् । (९) उद्धरध्वनिभिः । (१०) तरङ्गाणां समूहास्तेभ्यो भवैः । यथा पद्मसुन्दरकविकृतभारतीस्तवे - "वारं वारं तारतरस्वरनिर्जितगङ्गातरङ्गा'"मिति ॥२९९॥
नैतां श्रोत्रवतंसिकां 'विरचयन्सृष्टेविनिर्माणतो,
वैयग्रोण कलालमेव मनसा मेने निजं नाभिभूः । 1. तद्गङ्गागिरिराजयत्पिबजनानुर्व्याः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org