________________
२२८
श्री हीरसुन्दर' महाकाव्यम् 'सूरिटैक्ष[य]ति स्म सक्षणमिहाऽनेकान्महेभ्याङ्गजान्,
मूर्तीनां शतशोऽर्हतां विरचयाञ्चक्रे प्रतिष्ठाः पुनः । 'एकच्छत्रमिव व्यधत्त भुवने स्यावंभुवं शासनं,
प्रज्ञाधःकृतगी:पतिः 'क्षितिपते राज्यं "पुरोधा इव ॥२९४॥ (१) हीरसूरीश्वरः । (२) प्रव्रज्यां ग्राहयति स्म । (३) सोत्सवम् । (४) अनेकान्व्यवहारिणां नन्दनान् । (५) बिम्बानाम् । (६) सहस्रप्रमितानाम् । (७) जिनानाम् । (८) एकातपत्रमिव । (९) जैनशासनम् । (१०) स्वमतितिरस्कृतबृहस्पतिः । (११) राज्ञः । (१२) पुरोहित इव ॥२९४॥
सूरे_धनबोधनादिचरितप्रोद्भूतकीर्तिप्रथां,
प्रीत्योऽऽकर्ण्य शिरोविघूर्णनपरे जातेऽखिलें विष्टपे ॥ श्रोतुं सोत्सुकमानसो दशशतीमक्ष्णामिवांऽऽखण्डलः,
कर्णानाममरावतीविरचितावासाद्वैणीते विधेः ॥२९५॥ (१) हीरविजयसूरेः । (२) अकब्बरप्रतिबोधनप्रमुखचरित्रादिभूतकीर्तिविस्तारम् । (३) श्रुत्वा । (४) चेतश्चमत्कारितया मस्तकधूननतत्परे ।(५) विश्वे । (६) उत्कण्ठाकलितचित्तवृत्तिः । (७) सहस्रम् । (८) नयनानाम् । (९) इन्द्रः । (१०) इन्द्रपुरी( यां) कृतनिकेतनात् । (११) याचते । (१२) विधातुः सकाशात् ॥२९५॥ सूर्याचन्द्रमसौ पुर्नर्दिनतमीनिर्माणदम्भोदिदं
शुश्रूषारसिकायितानिशमनोवृत्ती इव भ्राम्यतः । भर्ता भोगभृतां तदैश्रवभवन्निर्वेदमेदस्विह
न्मन्दं स्वश्रुतिनिर्मितावपि शतानन्दं निनिन्दाऽऽत्मना ॥२९६॥ (१) दिवसनिशाकरणकपटात् । (२) प्रभुकीर्तेः श्रोतुमिच्छया रसिकवदाचरितो निरन्तरं चेतोव्यापारा ययोः । (३) नागेन्द्रः । (४) तस्याः कीर्तेरश्रवणेनोत्पद्यमानखेदमेदुरमनाः । (५) मूर्खम् । (६) निजकर्णकरणे । (७) धातारम् । (८) स्वयम् ॥२९६॥
विद्यो मन्दरकन्दरैः प्रतिरवैः 'प्रोत्साहिताः किन्नरा,
यत्कीति युवतीकृतानुवदनाः प्रीतेरुपावीणयन् । 1. नां च सहस्रशो भगवतां चक्रे प्रतिष्ठाः स्वयम् । हीमु० । 2. इतः पूर्वम्- सानन्दं ससुरासुरोरगनरव्रातः स्वकान्तायुतैः
श्रोतृश्रोत्ररसायनैर्घनरवैर्जेगीयमानां रसात् । तद्विश्वत्रयचित्रकृद्गुणगणैरागत्य कर्णान्तिकं गीतेर्गोचरताममेयसमयं नेतुं प्रणुन्नैरिव ।।२९७।। इति श्लोकः हीमु०मध्येऽस्ति । 3. तदाश्रव० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org