SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ चतुर्दश: सर्ग: (९) लाहोरनगरम् । (१०) भजते स्म ॥२८७॥ 'निर्ग्रन्थनाथः स विधाय गोष्ठी, सम्प्रीणयामास महीमहेन्द्रम् । "वाग्नामपीयूषरसाभिवर्षी, नौऽऽह्लादकः कस्य कुमुद्वतीशः ॥ २८९ ॥ ७ (१) सूरिः । (२) धर्मतत्त्ववार्त्ताम् । ( ३ ) आह्लादयामास । ( ४ ) नृपम् । (५) वाणीति नाम यस्य तादृक्सुधारसं समन्ताद्वर्षतीत्येवंशीलः । (६) प्रमोदकृत् । (७) जनस्य । (८) चन्द्रः ॥ २८९ ॥ 'श्रीमत्सूरिवरेण 'वाद्धिवसना वास्तोष्पतेराग्रहे णोपाध्यायपदेन्दिरां समगमि श्रीभानुचन्द्रः सुधीः । शेखो 'रूपकषट्शत 'व्यतिकरे तत्राऽश्वदानादिभि भक्तः श्राद्ध इवाऽर्थिनां प्रमुदितो विश्राणयामसिवान् ॥२९०॥ (१) विजयसेनसूरीन्द्रेण । ( २ ) अकब्बरानुरोधेन । (३) उपाध्यायपदश्रियं नन्दिकरणविधिम् । ( ४ ) अबलफजलनामा । (५) रूपकाणां षट्शतानि । (६) नन्दिकरणसमये । (७) तुरङ्गदानप्रमुखैः । (८) दत्तवान् ॥२८९॥ 'साहेः 'पर्षदि 'शेखादि-पार्षद्यजुषि सँप्रभुः । 'अजैषीद्वादिनो वादे, मुनिसुन्दरसूरिवत् ॥२९१॥ ( १ ) अकब्बरस्य । ( २ ) सभायाम् । (३) शेखप्रमुखसभ्ययुतायाम् । ( ४ ) विजयसेनसूरि: । ( ५ ) षष्ठ्यधिकत्रिशत ब्राह्मणानाम् । (६) निराचकार । उक्तिप्रयुक्तिभिः । ( ७ ) मुनिसुन्दरनामाचार्य इव । तैरभुक्तीयपण्डितं निरुत्तरीचकार ॥ २९९ ॥ 'साहि: 'सवाईविजय - सेनसाधुविधोरिदम् । बिरुदं 'हीरसूरीन्दो-र्जगद्गुरुरिवऽददात् ॥२९२॥ २२७ ( १ ) अकब्बरपातिसाहिः । ( २ ) सवाई विजयसेनसूरिरिति बिरुदम् । ( ३ ) हीरसूरेर्यथा जगद्गुरुरिति बिरुदम् । ( ४ ) दत्तवान् ॥ २९२॥ 'वादिनां 'विजयोदन्तं, श्रुत्वा तं 'मुमुदे गुरुः । "तस्य 'विष्णोरिवाँऽशेष- द्विषामनकदुन्दुभिः ॥२९३॥ (१) ब्राह्मणानां प्रतिवादिनाम् । ( २ ) पराजयकरणादिवृत्तान्तम् । ( ३ ) जहर्ष । ( ४ ) हीरसूरिः । (५) आचार्यस्य (६) नारायणस्य । (७) समग्रजरासंधादिवैरिणां विजयवार्त्ताम् । (८) वसुदेवः ॥२९३॥ १. श्रीमत्सूरिवरो व्यधत्त वसुधावास्तोष्पतेराग्रहे णोपाध्यायपदस्य नन्दिमनघां श्रीभानुचन्द्रस्य सः । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy