________________
२२६
श्री हीरसुन्दर' महाकाव्यम् "संस्थास्नोरतिदरतोऽपि कुमुदां पङ्क्तेरिव ज्योत्स्नया "प्रोद्यत्पावर्णशर्वरीवरयिता 'प्रोज्जृम्भतावैभवम् ॥२८४॥
(१) हीरसूरिः । (२) प्रसादयुक्तहृदयः । (३) भानुचन्द्रप्राज्ञस्य । (४) उपाध्यायपदम् । (५) ददौ । (६) वचनोच्चारेणेव । (७) लाभपुरस्थितस्याऽप्यस्य वाचकपदं दत्तम् । (८) दूरस्थिताया अपि । (९) कुमुदमालिकायाः । (१०) चन्द्रिकया । (११) उद्गच्छन्पूर्णिमासम्बन्धी चन्द्रः । (१२) विकाशश्रियम् ॥२८४॥
'विजयसेनविभोर्हदि दर्शनं, वसुमतीकमिता 'चकमे क्रमात् । *विदलिताखिलजन्तुतमस्ततेः, शुचिरुचेश्चलचञ्चुरिवाऽचिरात् ॥२८५॥
(१) विजयसेनसूरेः । (२) अकब्बरः । (३) काङ्क्षति स्म । (४) विध्वस्ता समस्ता तमसामज्ञानानामन्धकाराणां च श्रेणी येन, तस्य । (५) चन्द्रस्य । (६) चकोरः ॥२८५॥
'प्रेषीत्तत्तः 'प्रैष्ययुगं 'सलेख-मानेतुर्माचार्यसुधामरीचिम् । अकब्बरः सिन्धुमिवाऽत्र चक्री, सुमित्रभूः सुस्थितमादितेयम् ॥२८५॥
(१) प्रजिघाय । (२) मेवडायुगलम् । (३) फुरमानयुक्तम् । (४) आकारयितुम् । (५) विजयसेनसूरिम् । (६) सागरमिव । (७) सगरचक्रवर्ती । (८) सुस्थितनामानं देवम् ॥२८६॥ लेखं न्यासमिवाऽर्पितं 'क्षितिपतेर्दूतद्वयेनादरा
दादायाऽथ विभाव्य तस्य 'बुबुधे हार्द “मुनीन्द्रोऽखिलम् । द्रष्टंकाक्षति मामिवैष कथमप्यचार्यमप्यात्मना
सन्तयेति ततो न्यवेदयदनूचानाय सर्वं स तत् ॥२८६॥ (१) उपनिधिम् । 'थापिणि' इति प्रसिद्धा । (२) राज्ञः । (३) गृहीत्वा । (४) दृष्ट्वा । (५) फुरमानस्य । (६) अज्ञासीत् । (७) रहस्यम् । (८) हीरसूरिः । (९) वाञ्छति । (१०) अकब्बरः । (११) स्वेन । (१२) विचार्य । (१३) पश्चात् । (१४) कथयति स्म । (१५) विजयसेनसूरये ॥२८६॥
'गुरोरुंपादाय रहस्यविद्यां, शिक्षां च साक्षात्किदर्कसिद्धिम् ।
कम्माङ्गजातव्रतिचक्रवर्ती, क्रमाच्चलल्लाभपुरं 'बभाज ॥२८७॥
(१) हीरसूरेः । (२) गृहीत्वा । (३) पराज्ञातजैनमन्त्रान् । (४) हितकृन्मतिम् । (५) उत्तरकालफलिनी सिद्धिमिव । (६) विजयसेनसूरिः । (७) परिपाट्या । (८) प्रतिष्ठमानः ।
1. ०लोक० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org