SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२५ चतुर्दशः सर्गः 'यः पूर्वं 'कलिकालकेलिकलनालीलालयश्रीजुषां म्लेच्छक्षोणिभुजां वशंवदतया जज्ञे नृणां दुर्लभः । 'तिग्मज्योतिरखण्डचण्डिममहःसन्दोहदूरीकृत ज्योत्स्नारम्भविभावरीशविभवः सौगन्धिकानामिव ॥२८०॥ सौवर्णेन ततो बभूव भविकैर्लभ्योऽत्र गोशीर्षव ज्जातः साधिकरूपकेण तदनु प्राप्यः कथञ्चिजनैः । "साहिश्रीमदकब्बरेण यवनक्षोणीभुजा सम्मदात् ।। “सोऽपि श्रीविमलाचलो मुनिमणेश्चक्रे शयालुः शये ॥२८१॥ युग्मम् ॥ (१) विमलाचलः । (२) म्लेच्छराजव्यतिकरे । (३) कलियुगस्य क्रीडाकरणार्थ क्रीडासदनशोभा भजमानानाम् । (४) म्लेच्छनृपाणाम् । (५) आयत्तत्वेनाऽधीनतया । (६) जातः । (७) जनानाम् । (८) दुष्प्राप्यः । (९) सूर्यस्य निस्तुषा चण्डता यत्र तादृशेन प्रतापपुञ्जेन नाशितश्चन्द्रिकोदयो यस्य तादृक्चन्द्रस्य शोभासमुदायः । (१०) काराणाम् । कलारं-चन्द्रविकाशि। यथा नैषधे "कलारमिन्दुकिरणा इव हासभास" मिति ॥२८०॥ (१) स्वर्णटङ्केन । 'दीनारेणे'ति वा पाठः । (२) चन्दनवत् । (३) महमुंदीपञ्चकेन त्रिकेण च जातः । (४) महता कष्टेन । (५) जनैर्लभ्यः । (६) मुद्गलपातिसाहिना । (७) अकब्बरेण । (८) सोऽपीदृशदुर्लभदर्शनोऽपि । (९) शत्रुञ्जयशैलः । (१०) हीरसूरेः । (११) हस्ते । (१२) दत्तः ॥२८१॥ प्राचीनजैननरपति-वारक इव 'निष्करे विमलशैले । "विदधुर्विधिना यात्रां, तत्र मनुष्याः परोलक्षाः ॥२८२॥ (१) पूर्वनृपाना( णां) वारक इव । (२) कररहिते । (३) शत्रुञ्जये । (४) लक्षसङ्ख्या मनुष्याः । (५) यात्रां चक्रुः ॥२८२॥ वर्षाकाले व्रतीन्द्रौ तौ, 'राजधन्यपुरेऽन्यदा । जम्बूद्वीपे पयोजन्म-बान्धवाविव तस्थतुः ॥२८३॥ (१) मेघागमे । (२) हीरविजयसूरि-विजयसेनसूरी । (३) राजधननाम्नि नगरे । (४) कस्मिंश्चित्काले । (५) सूर्याविव । (६) स्थितौ-अर्थाच्चतुर्मासीम् ॥२८३॥ 'श्रीमत्सूरिपतिः प्रसत्तहृदयः श्रीभानुचन्द्राभिधप्राज्ञेन्दोरथ वाचकाह्वयपदं दत्ते स्म वाचेव सः । 1. राजधान्यपुरे० हीमु० । टीकायामप्येवमेव पाठोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy