SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२४ श्री हीरसुन्दर' महाकाव्यम् 'प्रालेयेन 'खिलीकृतः 'शिखरवत्लेयभूमीभृतः शीतात्तिं प्रविषय वस्त्रवियुजां संवर्त्तरात्रीमिव । क्षोणीपालनिभालिताखिलमहाभीलोपलम्भः पथि "श्रीवाचंयमशर्वरीवरयितुः सन्देशवाक्प्रेरितः ॥२७६॥ 'श्रीशत्रुञ्जयभूभृतस्तनुमतां यात्रां विनिर्मित्सतां मूलान्मोचयितुं स्वयं करमथो श्रीभानुचन्द्रः सुधीः । तत्सारस्वतवद्मभूषणसरोबोहित्थेसन्तस्थुषो ___ विज्ञप्ति ‘कृतवानकब्बरधरापाथोजिनीप्रेयसः ॥२७७॥ युग्मम् ॥ (१) हिमेन । (२) विषमीकृतः । (३) शृङ्ग इव । (४) हिमाद्रेः । (५) शीतपीडाम् । (६) मर्षयित्वा । (७) वसनरहितानाम् । (८) कालरात्रिमिव । (९) अकब्बरेण दृष्टसर्वशीतपीडाप्राप्तिर्यस्य । (१०) मार्गे । (११) हीरसूरेः । (१२) सन्देशवचनैः प्रेरितः ॥२७६॥ (१) विमलाचलस्य । (२) कर्तुमिच्छताम् । (३) सर्वथा त्याजयितुम् । (४) राजदेयांशम् । (५) भानुचन्द्रोपाध्यायः । (६) काश्मीरमण्डलमार्गमण्डनतडाके यानपात्रे स्थितस्य। (७) अरजीम् । (८) चकार । (९) नृपस्य ॥२७७॥ द्विः ॥ 'भूभृत्कूकुद एष जीजियकरव्यामुक्त्यलङ्कारितां ____ योऽमारिं स्वकुमारिकामिव मुदा पूर्वं प्रदाय प्रभोः । 'निःशुल्कां पृथिवीं पुनर्जिनमतं "निर्माय 'नित्योत्सवं "श्रीमत्सिद्धधराधरं प्रददिवास्तद्यौतके 'युक्तकृत् ॥२७८॥ (१) 'सत्कृत्याऽलङ्कतां कन्यां यो ददाति स कूकुदः'-नृपकूकुदः । (२) जीजियानामकरस्य मोचनाद्यलङ्कारकलिताम् । (३) जीवदयारूपाम् । (४) स्वकनीमिव । (५) हर्षेण । (६) प्रथमम् । (७) दत्त्वा । (८) लोकभाषया शुल्कं 'दाण' मित्युच्यते - तद्रहिताम् । (९) भुवम् । (१०) कृत्वा । (११) अनिशमहामहम् । (१२) श्रीशत्रुञ्जयपर्वतम् । (१३) तयोः कन्यावरयोर्युतयोर्देये दानयोग्ये वस्तूनि । (१४) दत्तवान् । (१५) उचितकारी नृपः ॥२७८॥ निजनामाकं कृत्वा, 'फुरमानं प्राहिणोन्नॅपः प्रभवे । इदमप्यलमकृत ततः, करकमलं हंसवत्सूरेः ॥२७९॥ (१) स्वनामाङ्कितम् । (२) लेखम् । (३) प्रजि(वि)धाय । (४) राजा । (५) गुरवे । (६) फुरमानमपि । (७) भूषयति स्म । (८) पाणिपद्मम् । (९) राजहंस इव ॥२७९॥ १. ०संस्थायिनो हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy