________________
२२२
श्री हीरसुन्दर' महाकाव्यम् । "श्रीमद्वाचकशान्तिचन्द्रगणिनेत्याख्यायि साहेः पुरः "शिष्टिं स्याद्यदि वः प्रयामि तदहं नन्तुं गुरूनुत्सुकः ॥२६८॥
(१) सर्वेषु साहिकथनयोग्येषु कार्येषु कार्यशूरप्रतिभम् । (२) वाग्विलासेन कृत्वा । (३) बृहस्पतिमिव । (४) फतेपुरसाहिपार्वे । (५) भानुचन्द्रनामानं पण्डितम् । (६) सूरीन्द्रशासनेन । (७) शान्तिचन्द्रोपाध्यायेन । (८) कथितम् । (९) अकब्बरस्याऽग्रे । (१०) आदेशः । (११) युष्माकम् । (१२) तर्हि । (१३) सूरीन्द्रान् । (१४) उत्कण्ठितः ॥२६७॥ प्रह्लादेन ततो गुरून्प्रति निजात्यार्वात्स 'जेजीयका
__ मारीणां 'फुरमानढौकनकरः सन्देशवाचो वहन् । "श्रीमत्सूरिसितांशुशासनकृपाकोशानिशश्रावण
च्छेकः प्रैषि नृपेण वाचकविधुः श्रीशान्तिचन्द्राभिधः ॥२६९॥ (१) हर्षेण । (२) हीरविजयसूरीन् । (३) स्वसमीपात् । (४) जेजीयकनामा गौर्जरः करविशेषस्तस्य मारीणां च । (५) स्फुरन्मानरूपा उपदा पाणौ यस्य । (६) साहिसन्दिष्टान वाग्विलासानाकलयन् । (७) श्रीहीरसूरेरादेशात्कृपाकोशनामा ग्रन्थविशेषस्तस्य प्रतिदिनं श्रावणे चतुरः । (८) प्रहितः । (९) शान्तिचन्द्रोपाध्यायः ॥२६९॥
हमाउसूनोः फुरमानदाना-धुदन्तैमुद्वेलकृपापयोधेः । प्रीत्या समेत्याऽऽप्त इवाऽत्र सोऽपि, न्यवेदयत्सूरिपुरन्दराय ॥२७०॥
(१) अकब्बरपातिसाहेः । (२) फुरमानप्रदानप्रमुखम् । (३) वेलामुद्गतः-अतिक्रान्तःअतिवृद्धो दयासमुद्रो यस्य । (४) आगत्य । (५) विश्वस्तजल इति(व) । (६) सूरिपार्वे । (७) वाचकः । (८) कथयामास ॥२७०॥ श्रीमत्पर्युषणादिना रविमिताः सर्वे' रवेर्वासराः
सोफीयानदिना अपीदैदिवसाः सङ्क्रान्तिघस्राः पुनः । मासः स्वीयजनैर्दिनाश्च मिहिरस्याऽन्येऽपि भूमीन्दुना
'हीन्दूम्लेच्छमहीषु तेन विहिताः कारुण्यपण्यापणाः ॥२७१॥ (१) पर्युषणापर्वणो द्वादशदिनाः । (२) समस्ता अप्यादित्यवाराः । (३) सोफीयानदिवसाः । (४) ईददिनाश्च यवनेषु प्रसिद्धाः । (५) तथा सूर्यसङ्क्रान्तीनां दिनानि । (६) पुनः स्वजन्ममासः । (७) तथा मिहिरवासरा यवनेषु प्रसिद्धाः । (८) आर्यानार्यदेशेषु । (९) कृपाक्रयाणकविपणयः ॥२७१॥ 1. हिन्दुम्लेच्छ० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org