SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २२१ 'आगादथाऽभिमुखमस्य पुरादमुष्मा-दागच्छतो विजयसेनगुरुर्गणेन्दोः । 'विश्वोपकारकृतिनौ मिलितौ मिथस्तौ , तीर्थाधिभूगणधराविव दिद्युताते ॥२६४॥ (१) आगतः । (२) सम्मुखम् । (३) हीरसूरेः । (४) विजयसेनसूरिः । (५) जगतामुपकृतौ प्राज्ञौ । (६) सङ्गतौ । (७) परस्परम् । (८) हीरविजयसूरि-विजयसेनसूरी । (९) तीर्थङ्करगणधारिणाविव ॥२६४॥ उत्तंसैरिव पत्कजैः शिवपुरी सम्प्राप्य "भूषां परां प्रासादे स चतुर्मुखे ध्रुव इव 'श्रीमन्महोक्षध्वजम् । चैत्येऽन्यत्र पुनर्गध्वजजिनं बिम्बैरनेकैः समं प्रेत्यस्थापयासपालविलसन्नेताप्रणीतोत्सवे ॥२६५॥ (१) शिखरैः । (२) चरणकमलैः । (३) सीरोहीनामपुरीम् । (४) नीत्वा । (५) उत्कृष्टाम् । (६) श्रियम् । (७) ब्रह्मणीव । (८) चतुरानने । (९) ऋषभदेवम् । (१०) परस्मिन् । (११) अजितनाथम् । (१२) प्रत्यतिष्ठिपत् । (१३) आसपालसङ्घपतिना शोभमानेन नेताख्येन साधुना । अथ आसपालेन शोभमानेन नेताह्वसाधुना निर्मितमहोत्सवैः चतुर्मुखे चेत्ये आसपलेन सङ्घपतिना प्रतिष्ठा कारिता । अजितनाथप्रासादे नेताख्येन प्रतिष्ठा कारिता, इति तत्त्वम् ॥२६५॥ 'आरुह्याऽर्बुदभूधरं जिनपतीन्नत्वा पुनर्गुर्जरान् प्रस्थातुं स्पृहयन्महीपतिसुरत्राणेन मन्त्रीश्वरैः । आगृह्याऽयममारिनिर्मितिकरव्यामुक्तिपूर्वं 'समा हूतो भूषितवांस्ततः "शिवपुरी वर्षागमे सूरिराट् ॥२६६॥ (१) अर्बुदाद्रिशिखरे गत्वा । (२) जिनान् । (३) प्रणम्य । (४) गूर्जरदेशान्प्रति । (५) चलितुम् । (६) काङ्क्षन् । (७) सुरत्राणाभिधभूधवेन । (८) स्वप्रधानपुरुषैः । (९) आग्रहं कृत्वा । (१०) सकले स्वमण्डले अमारिकरमोचनं च करिष्यामीति वाग्बन्धपूर्वकम् । (११) समाकारितः । (१२) सीरोहीपुरीम् । (१३) वर्षाकाले । (१४) प्रभुः ॥२६६॥ हेमसूरीश्वरेणेवा-ऽणहिल्लपुरपत्तनम् । क्रमाद्विहरता तेना-ऽलञ्चक्रे 'व्रतिचक्रिणा ॥२६७॥ (१) हेमाचार्येने( णे )व । (२) वर्षानन्तरं ग्रामानुग्रामं विहारं कुर्वता । (३) वाचंयमसार्वभौमेन ॥२६७॥ 'निःशेषोचितकर्मकर्मठधियं वाचेव वाचस्पति मुक्त्वा तत्र च 'भानुचन्द्रविबुधाधीशं गुरूणां गिरा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy