________________
२२०
श्री हीरसुन्दर' महाकाव्यम् 'ज्ञात्वाऽशक्तिर्मितो विराटनगरे 'स्वां सन्निधिस्थायिनं
श्रीहर्षाङ्गजवाचकावनिमणिं किं स्वीयमूर्ति पराम् । 'प्रैषीत्वॅरिवरोऽथ सोऽपि सपदि प्राप्य क्रमातत्तत्पुरं
क्लृप्ताद्वैततदुत्सवैविरचयाञ्चक्रे प्रतिष्ठां ततः ॥२६०॥ (१) असामर्थ्यम् । (२) पींपाढिनगरात् । (३) पुनर्मेवातमण्डले विराटनगरे । (४) आत्मीयाम् । (५) समीपे संस्थितम् । (६) हर्षानाम्नः साधोरङ्गजं कल्याणविजयाभिधानं वाचकेन्द्रम् । (७) द्वितीयाम् । (८) स्वकीयमूर्तिमिव । (९) प्रस्थापयति स्म । (१०) सूरीन्द्रः । (११) वाचकेन्द्रोऽपि ।(१२) शीघ्रम् । (१३) विराटनगरम् । (१४) प्रारब्धासाधारणैरिन्द्रराजमहोत्सवैः । (१५) चकार ॥२६०॥ रत्नस्वर्णसुवर्णकोपलमयाप्ता_प्रतिष्ठाक्षणे
हस्त्यश्वांशुकभूषणाशनमुखानेकप्रकारैस्तदा । भोजेनेव 'पुनर्गृहीतवपुषा विश्वार्थिदौस्थ्यच्छिदे
चत्वारिंशदनेन रूपकसहस्राणि व्ययीचक्रिरे ॥२६१॥ (१) रत्नानि-स्फटिकादीनि, स्वर्णं, सुवर्णं-पित्तलकं, उपलाः-पाषाणास्त एव स्वरूपं यासामेवंविधा आप्तानां जिनानामर्चाः प्रतिमास्तासां प्रतिष्ठामहोत्सवे । (२) गजाश्ववसनाभरणभोजनप्रमुखैरनेकप्रकारैः । (३) भोजराजेनेव । (४) द्वितीयवारम् । (५) आत्तदेहेन । (६) सर्वयाचकानां दारिट्रोच्छेदनाय । (७) चत्वारिंशद्रूपकसहस्राणि । (८) व्ययीकृतानीति श्रुतिः ॥२६१॥
'श्रीरोहिण्याः प्रतिष्ठायै, संश्रुतायै स्वयं प्रभुः । 'ततः प्रतस्थे यत्साधोः, स्थितिर्नैकत्र भृङ्गवत् ॥२६२॥
(१) शिवपुर्याः । (२) इन्द्रराजसचिवागमानात्प्रथममात्मनाऽङ्गीकृतायै प्रतिष्ठायै । (३) सूरीन्द्रः । (४) तत्पुरात् । (५) प्रस्थितः । (६) यस्मात्कारणाद् भ्रमरस्येव साधो.कत्र वसतिः। उक्तं च - "समणाणं सउणाणं भ्रमरकुलाणं गोकुलाणं च । अणिआउ वसहीउ सारयाणं च मेहाणं ॥२६२॥
वरकाणकमागत्य, पुरं सूरिपुरन्दरः । वरकाणकपार्श्वेशं, 'साक्षात्पार्श्वमिवाऽनमत् ॥२६३॥
(१) वरकाणकनामनगरम् । (२) ग्रामनाम्ना वरकाणकपार्श्वनाथम् । (३) स्वयमागतं पार्श्वनाथमिव ॥२६३॥ 1. ज्ञात्वा शक्ति... इतः परं एष श्लोक: हीमु०पुस्तके नास्ति, टीका तु अस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org