SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१९ चतुर्दशः सर्गः 'अभिवन्द्य विभो? पादां-स्तंत्र तीर्थानिवाऽपरे । सङ्घाः परेऽप्युपागत्य, ययुः स्थानं निजं निजम् ॥२५५॥ (१) नमस्कृत्य । (२) सूरिचरणान् । (३) नागपुरे । (४) तीर्थस्थानानीव । (५) अन्यपुरसम्बन्धिसङ्घाः । (६) स्वं स्वं पुरम् । (७) यान्ति स्म ॥२५५॥ यदेन्यनीवत्ततिमद्रिकायां, बिभर्ति माणिक्यमिवाऽत्र लक्ष्मीम् । क्रमात्प्रतिक्रम्य स तत्पुरे चतु-र्मासी विहारं विदधे व्रतीश्वरः ॥२५६॥ (१) नागपुरम् । (२) अपरजनपदमण्डल्येव मुद्रिका तस्याम् । (३) मणिरिव । यदुच्यते- "ओर देस सब मुंदरडी ओर नागोर नगीना" इति तत्रत्य जने प्रसिद्धिः । (४) पर्युषणादिपरिपाट्या । (५) सूरिः । (६) नागपुरे । (७) प्रस्थानम् । (८) चकार ॥२५६॥ पींपाढिनाम्नि स्वपुरे प्रभोर्मरूं-त्पुरोपमे नागपुरात्समीयुषः । 'तालाह्वसाधुळधिताधिकोत्सवं, तदा प्रदेशीव मुदाऽन्तिमार्हतः ॥२५७॥ (१) आत्मीये पुरे । (२) देवनगरतुल्ये । (३) समागतस्य । (४) ताला इत्यभिधानं यस्य । (५) चकार । (६) अतिशयितं महम् । (७) प्रदेशीनृप इव । (८) श्वेताम्बी समागतस्य महावीरस्य ॥२५७॥ 'ग्रामाश्वद्विपताम्रखान्यधिपतिः सामन्तवद्योऽजनि श्रीमालान्वयभारमल्लतनयः श्रीइन्द्रराजस्तदा । 'आह्वातुं सुगुरून्स्वकीयसचिवास्तेनाऽथ सम्प्रेषिताः प्रासादे “निजकारिते भगवतां मूर्तिप्रतिष्ठाकृते ॥२५८॥ (१) पञ्चशतीमितग्रामाणां तथा वाजिनां गजानां ताम्राकरस्य च स्वामी । (२) सामन्त इव । (३) श्रीमालवंशीयभारमल्लपुत्रः । (४) इन्द्रराजाभिधानः । (५) आकारयितुम् । (६) सूरीन्द्रान् । (७) आत्मनः प्रधानपुरुषाः । (८) स्वनिर्मापिते । (९) चैत्ये । (१०) जिनप्रतिमानां प्रतिष्ठाकृते ॥२५८॥ अलिके तिलकस्येव, पींपाढिपुरि तस्थुषः । तेऽप्यागत्य पुरो( र )श्चक्रु-विज्ञप्ति ज्ञप्तिशालिनः ॥२५९॥ (१) ललाटे । (२) पींपाढिनगरे । (३) स्थितस्य । (४) इन्द्रराजप्रधाननराः । (५) विज्ञप्तिकाम् । (६) बुद्धिभाजाम् ॥२५९॥ 1. एष श्लोकः हीमु०पुस्तके नास्ति । केवलं टीका एव तत्राऽस्ति । 2. श्लोकोऽयं हीमु०मध्ये नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy