SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्री'हीरसुन्दर' महाकाव्यम् निशाशनायितेनाऽभ्रपथे 'तारकतन्दुलाः । दिनाननशकुन्तेन शङ्के "कुक्षिगतीकृताः ॥४५॥ (१) निशायां बुभुक्षितेन । (२) आकाशे । (३) तारका एव कलमशालयः । "प्रथममुपहत्यार्थं तारैरखण्डितन्दुलै" रिति नैषधे । तन्दुलास्तुषनिर्मुक्तकलमाः । (४) प्रभापक्षिणा। (५) भक्षिताः । “बहुरूपकशालभञ्जिका मुखचन्द्रेषु कलङ्करकवः । वदनेकपसौधकन्धरा हरिभिः कुक्षिगतीकृता इव" इति नैषधे ॥४५॥ अहमेवं मन्ये । बुभुक्षितेन प्रभातपक्षिणा तारकतन्दुला भक्षिताः ॥४३|| 'दिग्गजेन्द्रावगाहेनोत्पन्नाः स्वःसिन्धुबुद्दाः । क्षणादिव 'व्यलीयन्त तारकास्तारकापथे ॥४६॥ (१) दिक्करिणां जलावगाहनोद्भूताः । (२) गगनगङ्गाबुद्धदाः । (३) क्षयं प्रापुः । (४) गगने ॥४६॥ तारकाः क्षयमाप्ताः । उत्प्रेक्ष्यते - दिक्कुञ्जराणां जलक्रीडाकरणादुत्पन्नाः स्वर्गङ्गायाः पानीयस्थासकाः ॥४४॥ आगामिनो गवां पत्युः प्रातःसेनापतेः पुरः । "कान्दिशीका इाऽनश्यन्नन्धकारविरोधिनः ॥४७॥ (१) आगमिष्यतीति आगन्तुके । (२) सूर्ये नृपे च । (३) प्रभातसेनानाथस्याऽग्रे । (४) भयद्रुताः । (५) तमःशत्रवः । (६) प्रणेशुः ॥४७॥ गवां-किरणानां भूमीनां वा भर्तुः-सूर्यस्य राज्ञ आगन्तुकस्य भयद्रुता अन्धकारा वैरिणश्च नश्यन्ति ॥४५॥ 'गह्वरे भूभृतां गुप्तं "तामसास्तापसा इव । कृशाः किमु 'तपस्यन्ति पुनरभ्युदयाशया ॥४८॥ (१) गुहायाम् । (२) गिरीणाम् । (३) गूढम् । (४) अन्धकारनिकराः । (५) तपः कुर्वन्ति । (६) स्फूर्तिमत्ताकाङ्क्षया ॥४८॥ उत्प्रेक्ष्यते - अन्धकाराः तपः कुर्वन्ति ॥४६।। 'विद्राणोत्पलदृक्क्षीणशुक्रा 'भ्रश्यत्पयोधरा । 'म्लानास्येन्दुस्त्यक्ततारमुक्ता वृद्धव शर्वरी ॥४९॥ (१) सङ्कचिता कुवलयमेव तत्तुल्या वा दृष्टिर्यस्याः । (२) क्षीण:-क्षयं प्राप्तोऽस्तमितो 1. इति तारकाणामस्त: हील० । 2. इत्यन्धकारगमनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy