________________
नवमः सर्गः 'दत्वोदयं त्वमेवोऽस्तं कथं दत्से प्रियस्य नः । तारका इत्युपालब्धुं भेजुरस्ताचलं किमु ॥४०॥
(१) प्रदाय । (२) उद्गम-ऐश्वर्यम् । द्वितीयायामुदयाचले चन्द्रोदयदर्शनात् । तथा प्रातवर्णने उदयनाचार्येणाप्युक्तं यथा- "उदयगिरिकुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्ग" इति । (३) क्षयम् । (४) अस्माकम् । (५) उपालम्भं दातुम् ॥४०॥
त्वमेवोदयं दत्वा त्वमेवाऽस्माकं पतेः चन्द्रस्याऽस्तं कथं दत्से इति तारका उपालब्धुमस्ताचलं गताः ॥४०॥
'नक्षत्रपद्धतेः 'प्रातभ्रस्यन्तोऽम्बुधरादिव । क्षणाद्विलयासेदुस्तारकाः करका इव ॥४१॥
(१) आकाशात् । (२) प्रातःकाले एव तारकाणां भ्रंशो न निशि । (३) घनादिव । (४) नाशम् । (५) प्रापुः । (६) घनोपला इव ॥४१॥
गगनात् मेघात्पतन्तस्तारका घनोपला इव जाताः सन्तो विलयमगुः ।।४१।। 'किं' 'पाथेयमिवोऽऽदाय क्षपा नक्षत्रमुक्तिकाः । "प्रत्यूषे प्रौषितं कान्तं मृगाङ्कमनुगच्छति ॥४२॥
(१) किमुत्प्रेक्षायाम् । (२) शम्बलम् । (३) लात्वा । (४) निशा । (५) प्रभाते । (६) द्वीपान्तरे प्रस्थितम् ॥४२॥
यथा मणिमुक्तादिपाथेयमादाय याति तद्वत्तारामुक्ता आदाय चन्द्रमनुयाति ॥५१।। अाब्धिमग्नं प्रत्यूषद्विषता रेमुषितश्रियम् । तारास्तारापतिं प्रेक्ष्योऽन्वमज्जस्तमिवाऽर्णवे ॥४३॥
(१) समुद्रे ब्रूडितम् । (२) प्रभातशत्रुणा । (३) गृहीतलक्ष्मीकम् । (४) चन्द्रम् । (५) चन्द्रपृष्ठे समुद्रे बुब्रूडुः ॥४३॥
चन्द्रं समुद्रे मग्नं दृष्ट्वा तारका अर्णवे बुब्रूडुरिव ॥४२॥ 'वितत्य मायिकेवोऽभ्रे "मायां 'तारामयीं तमी । क्षणाददृश्यतां निन्ये मन्ये तां दिवसानने ॥४४॥
(१) विस्तार्य । (२) इन्द्रजालिकेनेव । (३) आकाशे । (४) कपटरचनाम् । (५) ग्रहनक्षत्रतारकरूपाम् । (६) रात्रिः । (७) प्रभाते ॥४४॥
उत्प्रेक्ष्यते - मायां विस्तार्य पुना रात्र्या विलयं नीताः ॥५२॥ 1. एते ४२तमादारभ्य ५२तमपर्यन्तं श्लोका हीमु०हीलप्रतौ च यथासङ्ख्या : ५१-४२-५२-४३-४४-४५-४६-४७-४८ - ४९-५० एवं क्रमेण दृश्यन्ते । 2. ०यिकीवा० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org