SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री'हीरसुन्दर' महाकाव्यम् 'इतोऽभ्युदयते भानुरंतश्चन्द्रोऽस्तमीयते । इदं किमप्यंनीदृक्षमहो विलासितं विधेः ॥३५॥ (१) पूर्वस्यां दिशि । (२) प्रतीच्याम् । (३) प्राप्नोति । (४) अपूर्वं वक्तुमशक्यम् । (५) दैवविजृम्भितम् ॥३५॥ अनीदृक्षं विद्वद्भिरपि वक्तुमशक्यं विधिविलसितम् ॥३९॥ प्रेक्ष्य क्षपाक्षये चन्द्रं 'विद्राणं चन्द्रगोलिका । त्यक्त्वा कान्तं ययौ क्वापि "पुंश्चलीव 'यदृच्छया ॥३६॥ (१) रजनिनाशे । (२) नि:श्रीकं मृतप्रायं वा । (३) चन्द्रिका । (४) व्यभिचारिणीव । (५) स्वेच्छया ॥३६॥ यथाऽसती निःश्रीकं मृतप्रायं पति मुक्त्वा याति ॥३५॥ .. दृष्ट्वा यान्तं जघन्यायामन्तर्भूताभ्यसूयया । चन्द्रश्चन्द्रिकया रुच्य इव चण्डिकया जहे ॥३७॥ (१) गच्छन्तम् । (२) पश्चिमायाम् । “अजघन्यः प्रचेता" इति चम्पूकथायाम् । निकृष्टायामपि । (३) चित्तोद्भूतjया। (४) भर्ता । (५) अत्यन्तकोपनशीला चण्डिका तयेव । (६) त्यक्तः ॥३७॥ जघन्यायां जातेर्वा रूपाद्वा कुत्सितायां योषिति पश्चिमायां वा आगतं दृष्ट्वा ज्योत्स्नया चन्द्रस्त्यक्तः । यथा कोपनया पतिस्त्यज्यते ॥३४॥ 'तमीप्रियतमो मध्यं 'प्रत्यग्द्वीपवतीपतेः । जनिकर्तुर्निजस्येव मिलनाय "समीयिवान् ॥३८॥ (१) चन्द्रः । (२) पश्चिमसमुद्रस्य । (३) तातस्य । (४) स्वस्य । (५) समागतः ॥३८॥ चन्द्रः पश्चिमसमुद्रं जनकं मिलितुं गतः ॥३८॥ नियन्त्र्य हन्तुं स्वर्भाणुं पाशकाङ्क्षीव पाशिना । विधुः “पाथोधिसौधेनाऽऽधातुं "सौहार्दीयिवान् ॥३९॥ (१) बध्वा । (२) राहु[म्।।(३) बन्धनग्रन्थिवाञ्छकः । (४) वरुणेन ।(५) समुद्रगृहेण । (६) कर्तुम् । (७) मैत्र्यम् । (८) आगतः ॥३९॥ उत्प्रेक्ष्यते-चन्द्रो राहुं हन्तुं वरुणसमीपे पाशयाचनार्थं गतः ॥३७॥ 1. इति चन्द्रमसोऽस्तमयनम् । हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy