SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः (१) निरन्तरम् ।(२) अपरिमितमार्ग आकाशमार्गश्च तस्याऽतिक्रमणेन ।(३) जातश्रमः । (४) देवीगमनानन्तरम् ॥३०॥ अनन्तगगनमार्गलङ्घनैः श्रान्त इव चन्द्रः शनैरस्ताचलशिखां श्रयति स्म ॥३०॥ 'गर्भाश्मगर्भचन्द्राश्मकल्पितोत्तंसिकेव सा । अस्ताचलश्री ति स्म 'मौलिलीलायितेन्दुना ॥३१॥ (१) मध्ये मरकतं यस्याः चन्द्रोपलकृता वतंसिका । “विदर्भपुत्रीश्रवणावतंसिका" इति नैषधे । (२) शिरसि लीलायमानचन्द्रेण ॥३१॥ मध्यभागे मरकतरत्नं यस्य तादृशचन्द्रकान्तरत्नघटितमुकुटा इव अस्ताद्रिलक्ष्मीश्चन्द्रेण भाति स्म ॥३१॥ चन्द्राङ्क्रमणक्लान्तं स्वाशनायितरोहितम् । वनाय मोक्तुमस्तादूरध्यास्त किमधित्यकाम् ॥३२॥ (१) भ्रमणेन परिश्रान्तम् । (२) आत्मनो बुभुक्षिताङ्कमृगम् । (३) चरणाय । "वनाय प्रीतिप्रतिबद्धवत्सा" मिति रघुवंशे । (४) मोचनाय । (५) भेजे । (६) अस्तानेरूर्ध्वभूमीम् ॥३२॥ चङ्क्रमणेन श्रान्तं क्षुधितं स्वमृगं वनाय मोक्तुम् । उत्प्रेक्ष्यते - अस्तानेरुपरि गतः ॥३२।। 'विभुना वाक्सुधास्यन्दिवदनेन विधुर्जितः । 'तत्तुलाप्त्यै काक्षीवाऽस्तगह्वरमीयिवान् ॥३३॥★ (१) सूरिण । (२) वचनामृतश्राविवक्त्रेण । (३) प्रभुवदनसादृश्यलाभाय । (४) तपः कर्तुं वाञ्छन् । (५) अस्ताचलगुहां गतः ॥३३॥ विभुः । उत्प्रेक्ष्यते - श्रीहीरविजयसूरिवदनेन जितश्चन्द्रस्तत्सदृशीभवितुमस्ताचलगुहायां गतः ॥३३॥ रथाङ्गव्यथनोद्भूतैः पवित्रमैरिव पाप्मभिः । 'त्रियामापगमे राजा तत्यजे 'वसुभिः क्षणात् ॥३४॥ (१) चक्रवाकानां वियोगपीडनजातैः । (२) परिपाकं प्राप्तैः । (३) पातकैः (४) निशानाशे । (५) चन्द्रो नृपश्च । (६) किरणैर्द्रव्यैश्च ॥३४॥ । वसुभिः-किरणैर्द्रव्यैश्च ॥३६॥ 1. वागादस्ताद्रिगह्वरे हीमु० । 2. हीमु० हीलप्रतौ चैतेषां ३४-३५-३६-३७-३८-३९ तमश्लोकानामेषोऽनुक्रमः - ३६३९-३५-३४-३८-३७ । 3. इति चन्द्रस्याऽस्ताचलगमनम् । हील. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy