SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्री' हीरसुन्दर' महाकाव्यम् यथा रविश्चक्रवाकानाह्लादयति तद्वल्लोकानानन्दयन् । पुनर्विश्राणनैः कल्पवृक्षाणामवगणनां कुर्वन् । पुनरशेषजन्तूनां प्रतिबोधं दधन्- यथा दिनमुखं विनिद्रतां धत्ते । पुनः सुमनसामुत्तमानां लक्ष्मीनामुल्लासं कुर्वन् । यथा वसन्तः कुसुमश्रीणां विकाशं प्रणयति । हे सूरीन्द्र ! त्वं चिरं जीया इत्युक्त्वा शासनसुरी सूरिचरणयुगल चुम्बति स्म - नमस्करोति स्मेत्यर्थः ॥२३-२४-२५॥ ततोऽस्या धर्मलाभाशीर्व्यश्राणि श्रमणेन्दुना । 'श्रेयः सिद्धेरुपादानं तस्याः सम्प्रस्थिताविव ॥२६॥ ( १ ) देव्याः । ( २ ) दत्ता । ( ३ ) सूरिणा । ( ४ ) कल्याणप्राप्तेः । (५) मूलकारणम् । (६) प्रयाणे ॥ २६ ॥ ६ ॥२८॥ ततः सूरिणा धर्मलाभो दत्तः । उत्प्रेक्ष्यते - मोक्षलक्ष्म्या मूलहेतुः ॥ २६ ॥ पुनः स्वल्पेऽपि कार्येऽहं धुर्येण' गणधारिणाम् । प्रसादपात्रीकर्त्तव्या "किङ्करीवाऽमरी त्वया ॥२७॥ ( १ ) स्तोके । ( २ ) गणधरधुरीणेन । (३) प्रसत्ते: स्थानम् । ( ४ ) चेटीव ॥२७॥ पुनः । पुनः कार्ये प्रोक्तव्या ॥२७॥ Jain Education International इत्युंदित्वा प्रभुं नत्वा मोदमेदस्विनी ततः । क्षणिकेव क्षणादासीददृश्या द्योतिताम्बरा ॥ २८॥ (१) कथयित्वा । (२) हर्षप्रकर्षवती । ( ३ ) विद्युदिव । ( ४ ) प्रभाप्रकाशिताकाशा सा इत्युक्त्वा विद्युद्वदृश्याऽभूत् ॥२८॥ 'कुर्वन्कुवलयोल्लासं 'द्विजज्योत्स्नाविराजितः । 'कलधौतावदातश्री विभुर्विधुरिवाऽजनि ॥२९॥ * (१) भूमीमण्डलस्य उत्पलानां च आह्लादं विकाशं च । (२) दन्तचन्द्रिकाभिः शोभितः । द्विजैश्चन्द्रानुगैश्चन्द्रिकया च भूषितः । (३) कलधौतं स्वर्णं रूप्यं च तद्वदवदात: - पीतः । “विभ्राजते तव वपुः कनकावदात" मिति भक्तामरस्तवे । शुभ्रश्च । “कलधौतं स्वर्णरूप्ययो” रित्यनेकार्थः । (४) सूरिः ॥२९॥ कल० । काञ्चनमिव गौराङ्गः । पक्षे - रूप्यवत्वेतः । पुनर्द्विजानां दन्तानां वा नक्षत्राणां वा कात्या शोभितः । पुनः पृथ्वीतलस्य कमलस्य वा उल्लासं कुर्वन् । अतः सूरिश्चन्द्रवद् व्यभात् ॥२९॥ 'अश्रान्तांनन्तपदवीलङ्घनैः श्रान्तवानिव । शशी शनैः शनैरस्ताचलचूलामैथाऽऽश्रयत् ॥३०॥ 1. इति शासनदेवतास्वस्थानगमनम् ।। 2. कलधौतावदातश्रीर्द्विजज्योत्स्नाविराजितः । कुर्वन्कुवलयोल्लासं विभुर्विधुरिवाऽभवत् ॥०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy