________________
११
नवमः सर्गः वा शुक्रग्रहो यस्याम् । पक्षे-क्षीणं गर्भसम्भवाभावाद्विनष्टं शुक्रं-पुंवीर्यं यस्याम् । (३) भ्रश्यद्धना पतत्कुचा च । (४) म्लानि प्राप्तो विच्छायो वदनमेव चन्द्रो यस्याः, मुखसदृशो वा चन्द्रो यस्याः। (५) उज्झितानि तारानक्षत्राण्येव शुभ्राणि वा मौक्तिकानि । अर्थान्मुक्ताहारो यया।(६) रात्रिः ॥४९॥
विद्राणे उत्पलानि एव तत्तुल्ये नेत्रे यस्याः । पुनरस्तमित: शुक्रो वीर्यं च यस्यां सा । पुनर्विरलीभवदभ्रा पतितस्तना च । पुनर्लानवक्त्रा क्षीणचन्द्रा च । पुनस्त्यक्तास्तारा मुक्ताहारा च यया । अतो जरतीव रजन्यासीत् ॥४७॥
रजनीवियुजां जाने द्विजानामपशापतः ।
कैरवाक्षी क्षणाद्राज्ञः क्षीणतां प्रतिपेदुषी ॥५०॥
(१) रजन्यां वियुञ्जन्ति । वियोगं प्राप्नुवन्तीति । (२) पक्षिणाम् । चक्रवाकानामित्यर्थः । "विहगयोः कृपयेव शनैर्ययौ रविरहविरहध्रुवभेदयो" रिति रघौ । तथा सुरथोत्सवकाव्येऽपि - "रजनीवियुजां पतित्त्रिणा" मिति । (३) विरुद्धशापात् । (४) कैरवाक्षी - स्त्रीः । (५) चन्द्रस्य । रात्रिरित्यर्थः । भूपमहिषी वा । (६) क्षयम् । (७) प्राप्ता ॥५०॥
राज्ञः स्त्रीः तमी क्षीणाऽभवत् ॥४८॥ 'त्यक्ततारपरीवारा 'छिन्नध्वान्तकचच्छटा । 'तमी तपस्विनीवाऽऽसीयितेऽस्तमिते 'विधौ ॥५१॥
(१) उज्झितस्तारा एव परिवारो यया । (२) छेदं क्षयं नीता तमांस्येव केशश्रेणीर्यस्याः । (३) रात्रिः । (४) तापसीव । (५) भर्तरि । (६) चन्द्रे । (७) मृते ॥५१॥
त्यक्तास्तारा एव परिच्छदो यया सा, पुनश्छ्निो ध्वान्तरूपः केशपाशो यया तादृशी रात्रिश्चन्द्रेऽस्तमिते तपस्विनी जाता ॥४९॥
'संसिसृक्षुः शशी कान्तां कामगार्दनुरागवान् । इत्यालोकयितुं शङ्के तमी तमनुजग्मुषी ॥५२॥
(१) सङ्गं कर्तुमिच्छुः । “निर्वापयिष्यन्निव संसिसृक्षो" रिति नैषधे । (२) रक्तिम्ना रागेण वा युतः । अस्ताद्रिसङ्गान्मनागरुणीभूतः । (३) द्रष्टुम् । (४) रात्रिः । (५) शशिनमनुगता ॥५२॥
संसिसृ० । चन्द्रः कामपि सङ्गं कर्तुं गत इत्यालोकि(कयि)तुं तमी पृष्ठे प्रस्थिता ॥५०॥ तमस्विन्या विधोः पत्युविरहासहमानया । 'प्रातः सन्ध्याबृहद्भानौ स्वतनूः किमहूयत ॥५३॥
(१) [आतिशया वियोगं सोढुमसमर्थया । (२) प्रातस्त्यरक्तिमानले । (३) हुताभस्मीकृता ॥५३॥
रात्र्या वियोगभयात् प्रातःसन्ध्यारूपेऽग्नौ स्ववपुर्तुतमिव ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org