________________
२१४
श्री हीरसुन्दर' महाकाव्यम् सम्मुखमपि । (११) न विलोकयति । (१२) नरपतिः ॥२३१॥
न्यगदर्दनिमिषीनं मीनमेत-त्किम रमसे रमणीसखः सुखेन । "अनय ! 'नयपयोधिपारदृश्वा, किमु कुलवैरितया हनिष्यति त्वाम् ॥२३२॥
(१) कथयति स्म । (२) मत्स्यी । (३) भर्तारम् । (४) मत्स्यम् । (५) बहुस्त्रीत्वेन स्त्रीसखः । (६) किं क्रीडसि । (७) न विद्यते नयो-नीतिः कुलक्षयकारित्वाद्यस्य । (८) न्यायसमुद्रपारगामी । (९) वंशस्य शत्रुत्वेनेव । यः कुलसंहारकृत्सोऽवश्यं हन्यत एवेति ॥२३२॥
'तिमिरिति कान्तां मदनविनोदी, वदति मनीन्दोर्वचनविलासात् । 'अनिमिषभावादिव विनिहन्तुं, धरणिसुधांशुः प्रभवति नाऽस्मान् ॥२३३॥
(१) मीनः । (२) स्मरस्येव विनोदोऽस्याऽस्तीति-कामुकत्वात् ।(३) सूरीन्द्रवाग्विलासितात् । (४) देवत्वादिव । देवा हि मनुष्यैर्हन्तुं न शक्यन्ते । “अनिमिषो देवमीनयो" रित्यनेकार्थः । (५) अकब्बरः । (६) हिंसितुम् । (७) नाऽलम् ॥२३३॥
व्याधेन' वेध्यीकृतविग्रहेव, मृगाङ्गना साध्वसधावमाना । त्रासातिमात्रास्थिरनेत्रपत्रा, वादालबालेत्यलपत्प्रियं स्वम् ॥२३४॥ वादाल ! कुद्दालवदोनने किं, दंष्ट्रां स्फुटीकृत्य सुखेन शेषे । गम्भीरताभिश्चुलुकीकृताब्धि-स्त्वंद्भानुसूनुर्यदुपैति भूपः ॥२३५॥ युग्मम् ॥
(१) लुब्धकेन । (२) शरव्यीकृतं शरीरं यस्याः । (३) हरिणी । (४) भयेन पलायमाना। (५) त्रासातिरेकाच्चपललोचना । (६) मत्स्यविशेषपत्नी । (७) स्वकान्तं सहस्रदंष्ट्रम् ॥२३४॥
(१) भूखननोपकरणं गोदारणमिव । (२) मुखे । (३) प्रकटीकृत्य । (४) सातेन । (५) निद्रासि । (६) गाम्भीर्येण कृत्वा । (७) गण्डूषीकृतसमुद्रः । (८) तव कृतान्तः । (९) अकब्बरः । (१०) समेति ॥२३५॥ स स्माऽऽहेति सहस्रदंष्ट्रमहिलामालिङ्गय लालालसो
मा गाः साध्वसमध्वराशनपतेः पाथोधिनेमेरतः । श्रीमत्सूरिगिरो महाव्रतिवपुःपाथोनिशोपासना
प्रोद्भूतप्रणयादिव प्रियतमे ! नाऽस्मान्हिनस्ति प्रभुः ॥२३६॥ (१) वादालः । (२) स्वप्रियाम् । (३) स्नेहादाश्लिष्य । (४) क्रीडया मन्थरः । (५) भयम् । (६) मा गच्छ । (७) भूमेः । (८) शक्रस्य । (९) महाव्रतिनः-सूरेः साधो शङ्करस्य वा शरीरभूतं यत्पानीयं तस्य सेवासञ्जातस्नेहात् । (१०) घातयति ॥२३६॥ 1. वेधीकृतकाययष्टी मृगीव तत्साध्वस० हीमु० । 2. गिरा हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org