SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः 'नक्राद्यानुपसृत्य तत्प्रियतमा इत्यूचुरौतङ्किताः 'कीलालेष्विव 'लोलुपाशयतया 'हन्ता 'नृनेताऽऽत्मनाम् । "तेऽप्यख्यन्निति "वज्रबाहुनृपवैगोपायति 'क्ष्मापति र्जन्तून्जैन्तुपितामहः स करुणाकल्लोलिनीवल्लभः ॥२३७॥ (१) नक्रचक्रप्रमुखान्मत्स्यविशेषान् । ( २ ) समीपे समागत्य । ( ३ ) तेषां कान्ताः । ( ४ ) भयाकुलिता: । ( ५ ) कीलालेषु - जलेषु रुधिरेषु । ( ६ ) लम्पटचित्तत्वेन । (७) आत्मजातानाम् । ( ८ ) अकब्बर: । ( ९ ) घातकोऽस्ति । (१०) नक्रचक्राद्या अपि प्रियाः प्रति । (११) प्रोचुः । ( १२ ) वज्रबाहुनृपः श्रीशान्तिनाथपूर्वजन्मनृप इव । (१३) रक्षति पालयति । (१४) नृपति: । (१५) सत्वानां पितृपितृतुल्यः । (१६) नृपः । ( १७ ) कृपासमुद्रः ॥ २३७॥ 'चौलुक्यावनिजानिनेव 'निखिले कृपारकाञ्चीतले "श्रुत्वा 'प्राणिगणैरैमारिमँवनीकान्तेन 'सङ्कल्पिताम् । गर्जन्तीह गजा हंसन्ति हरिणाः कूर्द्दन्त्यथो कासरा हृष्यन्ति "द्विरदद्विषः सुखैमधुर्वाघ्रीणसद्वीपिनः ॥ २३८॥ काय 'कलितललनाकेलयो नीलकण्ठा माकन्दस्था विदधति पिकाः पञ्चमालापलीलम् । " शब्दायन्ते शिखरिशिखरिस्थायिनस्ताम्रचूडाः कीरा धीरा इव शिरस्यन्वैतिष्ठंश्च गोष्ठीम् ॥२३९॥ 'प्रीतिप्रह्वां रमयति रहः स्वां चकोरी चकोर - `श्चेरुः स्वैरं गृहबलिभुजः 'खञ्जनाः 'खे 'विलेसुः । " लीलायन्ते 'धवलगरुतः प्रोच्छलन्ति स्म मत्स्या"विश्वस्याऽऽसन्निव 'सुखमया वासरास्ते २१५ तदानीम् ॥२४०॥ त्रिभिर्विशेषकम् ॥ (१) कुमारपालेनेव । (२) समस्ते । ( ३ ) भूमण्डले । ( ४ ) आकर्ण्य । (५) सत्त्वसमूहैः । ( ६ ) दयाम् । (७) अकब्बरेण । ( ८ ) कारिताम् । (९) गर्जारवं, हर्षातिशयात् । (१०) जीवितव्याशया हास्यं सृजन्ति । ( ११ ) उच्छलन्ति । ( १२ ) महिषाः । ( १३ ) हर्षं प्राप्नुवन्ति । (१४) सिंहाः । (१५) सुखं धारयन्ति । (२६) खड्गिनः व्याघ्रचित्रकाः ॥ २३८॥ (१) केकारवं कुर्वन्ति । ( २ ) कृताः स्त्रीभिः क्रीडा यैः । ( ३ ) मयूराः । ( ४ ) आम्रस्थिताः । (५) पञ्चमरागललितम् । (६) शब्दं कुर्वन्ति । (७) तरुशिखाग्रस्थायुकाः । (८) कुर्कुटाः । (९) शुकाः । (१०) पण्डिता इव । ( ११ ) द्रुममस्तके । ( १२ ) चक्रुः ॥२३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy