SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१२ (६) चन्द्रस्य नृपस्य च ॥ २२२॥ श्री' हीरसुन्दर' महाकाव्यम् काऽपि मयूरी वदति मयूरं किं 'केकाङ्कितताण्डवकेलीम् । 'व्यातनुषे 'मनुषे 'मनुषाणां पूषणमेनं 'नोऽऽत्मरिपुम् ॥२२३॥ ? (१) केकायुक्तनृत्यक्रीडाम् । (२) विस्तारयसि । ( ३ ) न जानासि । ( ४ ) नरेन्द्रम् । (५) स्वहन्तारम् ॥२२३॥ 'विष्टपजीवनवारिमुचां किं, मित्रतया शितिकण्ठतया वा । " सूरिगिरा न निहन्ति नृपोऽस्मा - न्मेचकिनौच्यत मेकिनीति ॥२२४॥ (१) विश्वजीवनस्य मेघस्य । (२) मित्रत्वेन । ( ३ ) ईश्वरत्वेन वा । (४) प्रभुवाचा । (५) मयूरेण । (६) भाषिता । (७) मयूरी ॥२२४॥ 'ऊचे कापि 'पिकं पिकीनि विरहिव्यामोहजेनां हसा 'प्रादुर्भूतमिर्वाऽवयासि दमनं 'न 'क्षोणिसङ्क्रन्दनम् । माहेति विभोगिरा "द्विजतयेवाऽसौ 'स्वलीलावतीलीलापञ्चमगनपाठकतया वार्डस्मान्न हन्ति प्रिये ! ॥२२५॥ ( १ ) कथयति स्म । (२) कोकिलाम् । ( ३ ) वियोगिनामतिविरहोत्पादनोद्भूतमूर्च्छासन्तापजनितेन । ( ४ ) पापेन । (५) प्रकटीभूतम् । आगतमित्यर्थ: । ( ६ ) न जानासि । (७) घातिनम् । ( ८ ) नृपम् । ( ९ ) उवाच । (१०) ब्राह्मणत्वेनेव । ( ११ ) आत्मीयविलासवतीनां लीलाकलितपञ्चमध्वनितस्य पाठकत्वेनाऽध्यापकत्वेनेव वा । ( १२ ) आत्मन: । (१३) न हिनस्ति ॥ २२५ ॥ स्व' पत्नी 'ताम्रचूडो 'दरतरलदृशं हन्तुमभ्येति भूमी 19 भास्वांस्त्वां मामपीति प्रकटितवचसं धीरयन्नित्यवादीत् । मा भूस्त्वं 'भूरिभीतेर्भवनमिह 'जगद्बोधकर्त्तृत्वशक्ति Jain Education International व्यक्तिप्रेमातिरेकादिव "विभुर्वचसो ध्वंसते नींऽयमस्मान् ॥२२६॥ (१) निजजायां कुर्कुटीम् । (२) कुर्कुट: । ( ३ ) भयचपललोचनाम् । (४) आगच्छति । ( ५ ) साहिः । ( ६ ) उदीरितवचनाम् । (७) आस्वा ( श्वा ) सयन् । (८) बहुभयस्य । (९) स्थानम् । (१०) जगज्जनानां प्रतिबोधकरणत्वसामर्थ्ये स्फुटतया स्नेहातिशयेन । ( ११ ) सूरिनिर्देशात् । ( १२ ) घातयति । (१३) नृपः ॥२२६॥ 1. नो मानुषपूषणमेनं स्वासहजम् । हीमु० । 2. ० वारिधरैरिव मैत्र्याद्वा शितिकण्ठतया । हीमु० । 3. कान्तेति हीमु० । 4. ० गीति० हीमु० । 5. ० वचसा हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy