________________
२१०
श्री हीरसुन्दर' महाकाव्यम्
(५) स अस्मान्नहन्ति । ( ६ ) किन्तूत्प्रेक्षायाम् । (७) अनेकान्पाति रक्षति - तत्त्वेन । (८) अथवा सङ्ग्रामेषु । ( ९ ) अस्मद्रोत्रिणामेकवंशजातानां गजानाम् । (१०) परदलविदलनाद्युपकारस्मरणात् ॥ २१२ ॥
इति काचिदुवाच 'हयद्विषती, प्रमदं प्रिय ! मुञ्च सचिन्त इव । "भुजमूर्द्धविरोधितयेव यतः, प्रणिहन्तुमना अर्यमेति नृपः ॥२१३॥
(१) महिषी । ( २ ) हर्षम् । ( ३ ) त्यज । (४) चिन्तायुक्त इव । (५) स्कन्धवैभववैरित्वेनेव । (६) यस्मात्कारणात् । (७) हन्तुकामः । (८) आगच्छति । (९) नृपः
॥२१३॥
'इत्यंवक्सोऽपि कान्ते! धृतिं "भूपतेर्मा कृथा यन्निदेशेन सूरीशितुः । सोऽवद्येन नश्चक्षुषा "नेक्षते, "यानभावेन "बिभ्यत्कृतान्तादिव ॥ २१४॥
(१) अमुना प्रकारेण । (२) कथयति स्म । ( ३ ) महिषोऽपि । ( ४ ) हे प्रिये ! । ( ५ ) भूपतेर्नृपात् सकाशात् । (६) अधृतिमस्वास्थ्यम् । (७) मा कार्षीः । ( ८ ) हीरसुरेराज्ञया । (९) नृपोऽपि । (१०) दुष्टेन । ( ११ ) न पश्यति । ( १२ ) वाहनत्वेन । (१३) भयं दधत् । ( १५ ) यमात् ॥२१४॥
काऽपि प्रियं वदति 'वारणवैरिणीति, शेषे सुखं कथमहो गिरिगह्वरेषु । हन्ता नृपस्तव कलत्रकलत्रलक्ष्मी-स्पर्द्धाक्रुधा र्निजगजारितयाऽथवा किम् ॥२१५॥
(१) सिंही । (२) निद्रासि । (३) पर्वतगृहासु । ( ४ ) घातुकः । (५) स्वस्त्रीणां श्रोणिश्रीभिः संहर्षोद्भूतकोपेन । ( ६ ) आत्मीयानां हस्तिनां शत्रुत्वेन वा ॥ २१५ ॥
सिंहोऽप्यख्यद्भयभीता मा स्म भू-र्णायें हन्ति व्रतिशार्दूलशास्तेः । यद्वा शौर्याद्दलितद्वेषिनागान् हन्यदुच्चैः शिरसः संश्रिताकः ॥२१६॥
(१) भीत्या चकिता व्याकुला । ( २ ) नृपा: । ( ३ ) सूरीन्द्रादेशात् । ( ४ ) शूरत्वेन । (५) हतप्रतिपक्षकुञ्जरान् । (६) उच्चैः शिरसः महतः । (७) आश्रितान् । (८) कः परः
॥२१६॥
'वपुषा कुरुषे किमभ्यसूयां, स्मयमानासनशाखिशाखया त्वम् ।
" किमवैषि न "भूवृषैति हन्तुं, दयितं द्वीपिनमित्युवाच काचित् ॥२१७॥
( १ ) शरीरेण । (२) ईर्ष्याम् । (३) विकसितपीतसालतरुशाखया । असनशाखानां व्याघ्रस्य तुल्यत्वेनोपमानं दृश्यते । रघुकाव्ये यथा - "व्याघ्रानभी: फुल्लासनाग्रविटपानिव” इति । (४) किमिति प्रश्ने । (५) न जानामि । (६) भूमीन्द्रः । (७) व्याघ्रम् । हैमनाममालायाम्1. ०ख्यत्कुरु मा भीरु भीतिं नायं हन्ति व्रतिशार्दूलशास्त्या । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org