SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २०९ (१) पक्षिणोऽपि । (२) पत्नी स्वस्वजायां आलिङ्गतीत्येवंशीलाः । (३) स्वस्वभाषाभिः । (४) हर्षम् । (५) धारयन्तः । (६) तव वाचा । (७) प्राप्ता । (८) सुखम् । (९) प्राप्नुहि । (१०) मङ्गलशंसनेन । (११) सुखं मोक्षं च ॥२०७॥ 'त्रिजगज्जनगीयमानया-नगतः सूरिशशी यशःश्रिया । वसतिं सुदृशा नवोढया, परिणेतेव ततो व्यभूषयत् ॥२०८॥ (१) त्रैलोक्यलोकैः स्तूयमानया । (२) सहितः । (३) कीर्तिलक्ष्म्या । (४) उपाश्रयं गृहं च । (५) स्त्रिया । (६) नवपरिणीतया । (७) चरयितेव । (८) प्रातःकाले ॥२०८॥ 'प्रावर्त्तयत्पुनर्भुवो', भास्वानमारिमैङ्गिनाम् । मूर्धाभिषिक्तवन्निजा-माज्ञामशेषमण्डले ॥२०९॥ (१) प्रवर्त्तयति स्म । (२) नृपः । (३) प्राणिनाम् । (४) दयाम् । (५) महाराज इव । (६) समस्तदेशे ॥२०९॥ तत्र च व्यतिकरे टवीविय-द्वारिचारियुवजानिजन्मिनाम् । सङ्कथा 'विरहदाववारिमु-ग्मालिका इव मिथोऽत्र जज्ञिरे ॥२१०॥ (१) तस्मिन् । (२) समये । (३) वनचारि-नभश्चारि-जलचारिणां तथा युवती जाया येषां तादृशानां जीवानाम् । (४) परस्परं वार्ताः । (५) वियोगदावानले मेघमालिकातुल्याः । (६) अत्र-जगति । (७) सञ्जाताः ॥२१०॥ 'काऽप्यांचख्यौ प्रियमिति करिणी, किं मत्तो मद्यप इव रमसे । नो जानीषे मृगयुमिव नृपं, 'हन्तारं तद्ब्रज गज ! गहनम् ॥२११॥ (१) अनिर्दिष्टनामा । (२) वक्ति स्म । (३) भर्तारम् । (४) हस्तिनी । (५) मदवान् । (६) मदि[रा]पायीव । (७) क्रीडसि । (८) जानासि । (९) लुब्धकम् । (१०) अकब्बरम् । (११) जगज्जीवसंहारिणम् । (१२) तवाऽपि हन्तारं तस्मात्कारणात् । (१३) हे प्रिय गज ! (१४) गिरिगहने । (१५) गच्छ ॥२११॥ सोऽप्यवक्करिणि ! मा बिभेषि नः", सूरिशासनवशान हन्ति सः । 'किन्त्वनेकपतया रणेषु म-द्रोत्रिणांमुपकृतिस्मृतॆरिव ॥२१२॥ (१) गजोऽपि । (२) बभाषे । (३) मा भयं कार्षीः । (४) सूरीन्द्रस्याऽनुशिष्ट्या । 1. एतच्छ्लोको हीमु० टीकायां पाठान्तररूपेण दृश्यते । हीमु०स्वीकृतपाठस्त्वेवम् त्रिजगज्जनगीयमानयानुगतोऽद्वैतयशःश्रियालये। भरतावनिभृज्जयश्रिया पुरि चक्रीव ततः स जग्मिवान् ॥ 2. बिभीहि हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy