SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ श्री हीरसुन्दर' महाकाव्यम् 'शशंस सूरि कमिता ततः क्षितेः, किमप्युपादाय "कृतार्थ्यतामहम् । न यत्करः पात्रकरोपरि स्म भूत्, स मोघजन्मा 'हि वनप्रसूनवत् ॥१७०॥ (१) कथयति स्म । (२) साहिः । (३) स्तोकं किञ्चित् । (४) गृहीत्वा । (५) कृतार्थः क्रियतां सफलीकार्यः । (६) यस्य पाणिः । (७) साधूनां दानावसरे हस्तोपरि नाऽभूत् । (८) निष्फलावतारः । (९) वनकुसुममिव ॥१७०॥ 'नवोद्धृतं दध्न इवोऽम्बुधेः 'सुधां, मृदश्च हेमोपकृत( ति स्तनोरिव । श्रियस्तथा सारमिदं मुनीन्द्र ! य-क्रियेत सा पात्रकराब्जसङ्गिनी ॥१७१॥ (१) नवनीतं म्रक्षणम् । (२) समुद्रस्य । (३) अमृतम् । (४) मृत्तिकायाः । (५) सुवर्णम् । (६) उपकारः । (७) शरीरस्य । (८) फलम् । (९) साधुपाणिपद्मखेलिनी ॥१७१॥ ततो 'बभाण 'प्रभुरैब्धिनन्दना, स्वतन्त्रचारा व्यभिचारिणीव या । श्रयेत को गन्धकलीमलीव तां, वृणोमि किं चाऽन्यदहं महीमणे ! ॥१७२॥ (१) नृपवाक्यानन्तरम् । (२) उवाच ।(३) सूरिः । (४) लक्ष्मीः । (५) स्वेच्छाचारिणी। . (६) असतीव । (७) चम्पककलिका । "न षट्पदो गन्धका फ)लीमजिघ्रत" इति सुभाषिते । (८) भृङ्ग इव । (९) याचे । (१०) किं च-मत्कथितं शृणु । (११) भूमीरत्न ! ॥१७२॥ 'निवेशिता ये नरकेषु नारका, इवाऽङ्गिनो 'गुप्तिषु सन्ति ते विभो ! । विमुञ्च तानित्थमुंदीर्य तस्थुषि, व्रतीश्वरेऽभाषत 'भूवृषा पुनः ॥१७३॥ (१) स्थापिताः । (२) बन्दिनः । (३) नारकिनः( णः) । (४) कारागृहेषु । (५) नियन्त्र्य रक्षिता वर्तन्ते । (६) अमुना प्रकारेण । (७) कथयित्वा । (८) स्थिते । (९) सूरीन्द्रे । (१०) नृपतिः ॥१७३॥ 'पृषत्सपत्नैरिव वन्यजन्तवः, शकुन्तपोता इव वा शशादनैः । 'विसारवारा इव देव ! धीवरै-रमीभिरुद्वेगमवापिता जनाः ॥१७४॥ (१) सिंहैः । (२) श्वापदा वनचारिणः प्राणिनः । (३) पक्षिबालकाः । (४) श्येनैः । (५) मत्स्यगणाः । (६) चारकचारिभिर्दुर्मतिभिः । (७) सन्तापं-खेदम् ॥१७४॥ अमी 'प्रजाम्भोजरमाहिमागमा, मनीन्द्र ! नीतेः परिपन्थिका इव । पचेलिमेनेव 'निजांहसा मया, 'निगृह्य तच्चारकगोचरीकृताः ॥१७५॥ (१) लोकलक्ष्मीकमलविनाशने हेमन्तसदृशाः । (२) न्यायस्य । (३) वैरिणः । (४) 1. विपिनप्रसूनवत् हीमु० । 2. तां गन्धकलीमलीव को हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy