________________
चतुर्दशः सर्गः
२०१ अतिप्रमाणा नृप ! 'जिह्मगामिनो-ऽप्यमर्षणाः “सुप्तभृतश्च "सप्तयः । रथाश्च खिड्गा इव कामवारिणः, स्ववाहिनां बन्धविधायिनः पुनः ॥१६५॥
(१) अतिक्रान्ते(तं ) प्रमाणं-पुरुषमानं वैरत्युच्चत्वात् । "जवेऽपि मानेऽपि च पौरुषाधिक"-मिति नैषधे । साम्यमपि दर्शयति भावप्रधाननिर्देशादतिक्रान्तं प्रामाण्यं यैः । (२) वक्रं गमनशीलाः । (३) कोपनाः-अमर्षभाजः-ईर्ष्याजुषः । (४) साधिकनिद्राभाजः अज्ञानाः । (५) अश्वाः । (६) विटा इव । (७) अतिशये[न] स्वेच्छया वा चरणशीलाः । (८) स्वमात्मानं वहन्ति शुभस्थानं प्रापयन्तीति स्ववाहिनः साधवस्तेषां वृषभानां(णां) च । (९) योक्त्रबन्धं बन्धनं कुर्वन्तीत्येवंशीला अनार्या इत्यर्थः ॥१६५॥
अमी 'नृशंसाः परघातिनः क्षिते: , शतक्रतो ! शल्यजुषः पदातयः । इयं च लक्ष्मी करिकर्णतालव-चलानिलान्दोलितकेतुवत्पुनः ॥१६६॥
(१) निर्दयाः क्रूराश्च । (२) अन्यान्वैरिणो वा जन्तीत्येवं शीलाः । (३) भूमीन्द्र ! । (४) शल्यानि शस्त्राणि रागद्वेषादिशल्यानि वा शरीरान्तःप्रविष्टलोहादिशल्यानि वा जुषन्ते-भजन्ते इति । "परस्परोल्लासितशल्यपल्लवे" इति नैषधे । 'शल्यं शस्त्रं कुन्तश्चेति तद्वृत्तिः । (५) गजकर्णवत् । (६) चपला । (७) वायुकम्पितप्रासादशिखरध्वज इव ॥१६६॥
इदं च राज्यं नरकप्रतिश्रुतेः, सुभूमभूभक्षुरिवाऽस्ति 'लग्नकम् ।
परं पुनः कारणमस्ति संसृते-नभोऽम्बुदाम्भोऽङ्करसन्ततेरिव ॥१६७॥
(१) नरकाङ्गीकारस्य । (२) सुभूमचक्रिण इव । (३) प्रतिभूः । ( ४ ) असाधरणमुत्कृष्टा वा । (५) संसारस्य । (६) श्रावणमेघवारि । (७) अङ्करश्रेण्याः ॥१६७॥
भवन्ति योग्या विभवा भवादृशां, न 'काबिलक्ष्माधवा मादृशीममी । 'यद॑न्तरायं प्रणयन्ति मुक्तिपू:-प्रयायिनां दुःशकुना इवाऽङ्गिनाम् ॥१६८॥
(१) उचिताः । (२) विशिष्टा राज्यादिलाभान्विता भवा उत्पत्तय इत्यर्थध्वनिः । (३) काबिलमण्डलभूपाल ! । (४) नाऽस्मादृशाम् । (५) यस्मात्कारणात् । (६) विजम् । (७) कुर्वन्ति । (८) मोक्षनगर्यां गमनशीलानाम् । (९) अपशकुना इव ॥१६८॥
'शिखामणेस्तस्य निरीहताजुषां, 'बलाहकस्येव 'निशम्य 'निःस्वनम् । 'मुदाँविरासीदवनीशमानसे, विदूरभूमाविव 'बालवायुजम् ॥१६९॥
(१) शिरोमणेः । (२) निस्पृहाणाम् । (३) वनस्य । (४) श्रुत्वा । (५) गर्जारवम् । (६) प्रीतिः । (७) कपट( प्रकटी )बभूव । (८) नृपचित्ते । (९) विदूरशैलभूमौ । (१०) वैडूर्यम् ॥१६९॥ 1. लग्नम् हीमु० । 2. मादृशां पुनः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org