________________
चतुर्दशः सर्गः
१९९ (१) स्वगृह इव । (२) शेखसद्मनि । (३) आगत्य । (४) साहिः । "इदं तमुर्वीतलशीतलद्युति"मिति नैषधे । (५) प्ररोहानिव । (६) सूरेः । (७) शेखगृहे । (८) दृष्ट्वा । (९) जहर्ष ॥१५४॥
क्रमादमीषार्मभिधाः सुधारस-द्रवा इवाऽऽपृच्छ्य 'पिबन्āवःपुटैः । प्रमोदवांस्तद्गृहचन्द्रशालिकां, ततः स्वयं मारमणोऽधिरूढवान् ॥१५५॥
(१) सूरिसाधूनाम् । (२) नामानि । (३) अमृतनिःस्यन्दा इव । (४) सादरं श्रृण्वन् । (५) कर्णपुटकैः । (६) हृष्टः । (७) शेखगृहोपरितनभूमिकाम् । (८) आत्मना । (९) साहिः । (१०) आरूढः ॥१५५॥
मघाभुवेोऽसुरशीतभानुना, 'मुनीश्वरेणाऽम्बुधिनेमिभानुना । विधाय गोष्ठी सदसद्विचारणा, स्थिरीकृतार्हन्मतसम्प्रधारणा ॥१५६॥
(१) शुक्रेण । (२) असुरेन्द्रेण । (३) सूरिणा । (४) साहिना । (५) धर्मगोष्ठीम् । (६) इदं सत्, इदमसत्, इदमागमविरुद्धं इदं लोकविरुद्धं इदमुभयाभिमतमिति विचारः । (७) जिनशासनसमर्थनं स्थिरीकृतं-स्थापितं शासनम् ॥१५६॥
तदिष्टगोष्ठीसमये महीहरे-हुँदैन्तरानन्दरसः स कोऽप्यभूत् । 'गिरां हि पारेऽजनि यो गिरां पते-र्न यत्र काव्यस्य च काव्यचातुरी ॥१५७॥
(१) सैव इष्टा मनसोऽभिप्रेता हृदयङ्गमा गोष्ठी-स्वतन्त्रमनोवार्ता, तस्याः प्रस्तावे । (२) साहेः । (३) मनोमध्ये । (४) कोऽप्यद्भुतवैभवः । (५) वाचामगोचरः । “गिरां हि पारे निषधेन्द्रवैभवः" इति नैषधेः । (६) बृहस्पतेः । (७) शुक्रस्य । (८) कवित्वरचनाचातुर्यम् ॥१५७॥
ततः प्रदित्सुर्मुरैवे स 'किञ्चना-ऽऽत्मनो घनो भूभुवनाय नीरवत् ।
प्रणीतवान्सं प्रणयं 'गिरां गृहं, 'मुखारविन्दं वसुधावधूवरः ॥१५८॥ . (१) गोष्ठीकरणानन्तरम् । (२) दातुमिच्छुः । (३) सूरीन्द्राय । (४) किमपि वस्तु । (५) स्वस्य । (६) मेघः । (७) भूमिलोकाय । (८) पानीयमिव । (९) चकार । (१०) सस्नेहम् । (११) वाचाम् । (१२) सौधम् । वाग्युक्तम् । (१३) वदनकमलम् । (१४) नृपतिः ॥१५८॥
'परःशताः कौतुकिना पयोनिधि, प्रमथ्य कृष्टा इव 'जह्वना पुनः । स्फुरन्ति तेऽमी मम मत्तकुम्भिनः, प्रभो ! भ्रमुवल्लभलक्ष्मीलम्भिनः ॥१५९॥ (१) शतात्परे । शतश इत्यर्थः । (२) कुतूहलवता । (३) समुद्रम् । (४) मथित्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org