________________
१९८
श्री हीरसुन्दर' महाकाव्यम् गते 'प्रिये क्वापि निजे जनाईने, 'समेत्य नेमिप्रभुदेवरान्तिके । स्थितां समुत्तीर्य यमी शमीश्वरः, पुरं प्रयातः पुनराँगराभिधम् ॥१४९॥
(१) भर्तरि । (२) नारायणे । (३) आगत्य । (४) नेमिनाथ एव स्वप्रियानुजो देवरस्तत्पावें । (५) तिष्ठन्तीम् । (६) यमुनाम् । (७) सूरिः । (८) आगरानगरे । (९) गतः ॥१४९॥
मणि' सुराणां तनुमत्समीहित-प्रदीत्सयेव त्रिदिवा,पागतम् । स तत्र चिन्तामणिपार्श्वतीर्थपं, महामहेन प्रतितस्थिवान्प्रभुः ॥१५०॥
(१) चिन्तामणिम् । (२) जनाभिलषितस्य दातुमित्सु(च्छ )या । (३) स्वर्गात् । (४) समागतम् । (५) सूरिः । (६) आगरानगरे । (७) चिन्तामणिपार्श्वनाथम् । (८) महोत्सवेन । (९) प्रतिष्ठितवान् ॥१५०॥
स 'उग्रसेनाद्यपुरात्फतेपुरं, यशस्करं 'स्वस्य विभुळभूषयत् । इवाऽन्यराशेः शशिरोशिर्मुच्चता-पदप्रदं चित्रशिखण्डिनन्दनः ॥१५१॥
(१) आगरातः । (२) कीर्तिकारकम् । (३) आत्मनः । (४) अपरराशितो - मिथुनराशेः । (५) चन्द्रस्य राशि - चन्द्रगृह कर्कराशिम् ।(६) उच्चत्वस्य स्थानकस्य प्रदायिनम् । कर्कराशिगतो गुरुरुच्चः प्रतिपाद्यते । (७) बृहस्पतिः ॥१५१॥ ।
'महीहिमज्योतिरियेष खञ्जनो, 'घनात्ययस्येव तर्दास्यदर्शनम् । "अमुं संगोष्ठिप्रविधित्सया पुन-निकेतने 'शेखमणेरैजूहवत् ॥१५२॥
(१) नृपतिः । (२) वाञ्छति स्म । (३) शरत्कालस्य । (४) फतेपुरागमनावसरे । (५) सूरेः । (६) हीरसूरिः( रिम्) । (७) साहिः । (८) गोष्ठीकर्तुमनसा । (९) गृहे । (१०) अबलफइजशेखस्य । (११) आकारयामास ॥१५२॥
क्रमेण वाचंयमयामिनीमणि-विभूष्य शेखप्रमुखस्य मन्दिरम् । "शिरोगृहं तस्य पुनः पवित्रया-ञ्चकार जम्भारिरिव 'त्रिविष्टपम् ॥१५३॥
(१) सूरीन्द्रः । (२) अलङ्कृत्य । (३) शेखपतेः । (४) चन्द्रशालाम् । (५) उप[रि]तनभूमिकाम् । (६) शेखगृहस्य । (७) पुनाति स्म । (८) इन्द्रः । (९) स्वर्गम् ॥१५३॥
अर्थाऽऽत्मधाम्नीव स शेखमन्दिरे, 'समेत्य, भूमीतलशीतलद्युतिः ।
इवोऽङ्कुरान्कल्पतरोर्मुनीशितु-मुनीनिह प्रेक्ष्य मुदं हृदा दधौ ॥१५४॥ 1. सौधमु० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org