SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः १९७ (१) आश्रितः । (२) ब्रह्मचर्येण । (३) नेमिना । (४) लज्जया । (५) स्वामिकार्तिकेन । तस्य ब्रह्मचारीत्यभिधानत्वादिति । तथा- "स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियाः शङ्कितः" इति खण्डप्रशस्तौ । (६) कैलाशस्य । (७) ऊर्ध्वभूमिः । (८) सूरिः । (९) अरिष्टनेमिनम् । (१०) यादवानां कुलं वंश एव सूर्यस्तस्योद्गमनार्थमुदयाचलम् । (११) सादरं विलोकयति स्म ॥१४३॥ जय त्रिलोकीजनकल्पपादपा !- पुनर्भवश्रीपरिरम्भलोलुप ! । जय 'प्रमोदाङ्करकोटिवारिमुक !, जय प्रभाभत्सितनीलरत्नरुक् ! ॥१४४॥ तरीव वाद्धौं 'तमसीव शारदा-रविन्दिनीशः 'सरसीव धन्वनि । दरिद्रतायामिव सेवधिर्मया, कलौ जिनेन्दो ! त्वमलम्भि 'दुर्लभः ॥१४५॥ (१) त्रैलोक्यलोकानां कामितपूरणे कल्पद्रुम ! । (२) मोक्षलक्ष्म्या आलिङ्गने लोलुप! । (३) हर्षप्ररोहश्रेणीसिञ्चने मेघ ! । (४) स्वशरीरकान्तिनिर्जितनीलमणे ! ॥१४४॥ (१) नौरिव । (२) समुद्रे । (३) अन्धकारे । (४) शरत्कालसम्बन्धिरविः । (५) महत्सरः । (६) मरुस्थले । (७) दारिने । (८) निधानम् । (९) कलिकाले । (१०) प्राप्तः । (११) दुष्प्राप्यः ॥१४५॥ तमियभिष्टुत्य हृदा दधन्मुंदं, चकार 'पञ्चाङ्गनतिं यतीशिता । 'विवक्षुरेतत्किमु पञ्चमी गतिं, 'दिश प्रभो ! पञ्चमकेऽरकेऽपि मे ॥१४६॥ (१) स्तुत्वा । (२) मनसा । (३) हर्षम् । (४) दधानः । (५) पञ्चभिरङ्गैः प्रणामम् । (६) वक्तुमिच्छुः । (७) मोक्षलक्षणाम् । (८) देहि । (९) पञ्चमारके-कलियुगेऽपि ॥१४६॥ 'मुनीन्दुना शौर्यपुरं पदाम्बुजै-विभूष्य दृष्टी इव तत्पुरश्रियाः । वृषाङ्कनेमिप्रतिमे पुरातने, 'प्रतिष्ठिते तत्र स नेमिपादुके ॥१४७॥ (१) सूरिणा । (२) शौरिपरम् । (३) चरणकमलैः । (४) नयने । (५) शौर्यपुरलक्ष्म्याः । (६) ऋषभनेमिनाथमूर्ती । (७) जीर्णे । (८) स्थापिते । (९) नेमिनाथपादुकायुक्ते ॥१४७॥ दिनद्वयं तद्यदुवंश्यबाहुज-व्रजान्कृपाधर्मधियो 'विधाय सः । ततो 'मुनिक्षोणिमणियवीवृत-तंटात्पयःपूर इवाँऽपगापतेः ॥१४॥ (१) शौर्यपुरस्य यदुवंशोत्पन्नक्षत्रियप्रकरान् । (२) दयाधर्मबद्धबुद्धीन् । (३) कृत्वा । (४) सूरिः । (५) निवृत्तः । (६) तीरात् । (७) समुद्रस्य ॥१४८॥ 1. पादप पुनर्भव० हीमु. । टीकायामप्येवमेव दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy