SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९६ श्री हीरसुन्दर' महाकाव्यम् स 'तूररावैः कुलशैलकन्दरो-दरप्रसर्पत्प्रतिनादमेदुरैः । 'निनाय नेमेर्वसति प्रदक्षिणां, महोदयाम्भोनिधिनन्दनामिव ॥१३८॥ (१) वादित्रध्वनिभिः । (२) मन्दरादिसप्तकुलाचलानां गुहामध्येषु सञ्चरत्प्रतिशब्देन पुष्टीभूतैः-बहुलीभूतैः । (३) प्रापयति स्म । (४) मोक्षलक्ष्मीमिव । (५) अनुकूलां चकार ॥१३८॥ निजां तनूजां धरणीप्रचारिणी-मिवाऽभ्रकेतौ मिलितुं समीयुषि । विवेश तस्मिन्शमिनां शतक्रतुः, शिवासुतस्याऽऽयतने हिरण्मये ॥१३९॥ (१) स्वपुत्रीम् । (२) भूमौ सञ्चरणशीला यमुनाम् । (३) सूर्ये । (४) सम्प्राप्ते । (५) नेमिचैत्ये । (६) सूरिः । (७) स्वर्णनिर्मिते ॥१३९॥ जनार्दनान्दोलनकेलयेऽभवत्, प्रलम्बदोलेव यदीयंदोलता । 'य उग्रसेनस्य सुतां पुर्नर्जही, पतिस्तैमीनामरविन्दिनीमिव ॥१४०॥ (१) विष्णोः प्रङ्खोलनक्रीडाकृते । (२) लम्बमाना दोला यस्य । (३) भुजवल्ली । (४) नेमिः । (५) राजीमतीम् । (६) तत्याज-मुक्तवान् । (७) चन्द्रः । (८) कमलिनीमिव ॥१४०॥ तनुश्रिया येन निजौजसा पुन-जितो 'हियाऽनङ्ग इवोऽङ्गजोऽजनि । 'यदङ्गग्निर्जितनीलनीरजै-रभाजि दुःखादिव 'पुष्करे तपः ॥१४१॥ (१) शरीरशोभया । (२) नेमिना । (३) स्वप्रतापेन । (४) लज्जया । (५) अङ्गरहितः । (६) स्मरः । (७) जातः । (८) यस्य शरीरनीलकान्तिर्जितनीलोत्पलैः । (९) श्रितः । (१०) पुष्करतीर्थे । “पुष्करं तु जले व्योम्नि, तीर्थे कुण्डे चे" त्यनेकार्थः ॥१४१॥ रवेण बाह्याहितजित्वरं तरो-ऽप्यभिप्रपन्नः पुनन्तिरद्विषाम् । 1 विघातशक्तिस्पृहयेव यत्पदं, हरेंस्त्रिरेखोऽमिषान्निषेवते ॥१४२॥ (१) शब्देन । (२) भूमीसञ्चारिणां प्रत्यक्षाणां वैरिणां जयनशीलम् । (३) बलम् । (४) प्राप्तोऽपि । (५) अन्तरङ्गाना( णा)मनन्ति कालादात्मप्रतिबद्धानां कर्मणां शत्रूणाम् । (६) हननसामर्थ्यस्याऽऽशया । (७) नेमिचरणम् । (८) पाञ्चजन्यः । (९) लाञ्छनच्छलात् । "एकः श्रीपाञ्चजन्यो हरिकरकमलक्रोडलीलायमानो, यस्य ध्वानैरमानैरसुरसुरवधूवर्गगर्भा गलन्ति" इति सूक्तम् ॥१४२॥ 'अशीलि शीलेन जितेन येन किं, "हिया कुमारेण गिरेरँधित्यका । 'प्रभ॑र्जितं तं यदुवंशभास्करो-दयोदयक्षोणिधरं दृशा पपौ ॥१४३॥ चतुर्भिः कलापकम् ॥ 1. विघातशक्ति स्पृहयन्त हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy