SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः 'प्रभुः प्रियस्येव धर्मचारिणी - महर्निशं शौर्यपुरोऽङ्कचारिणीम् । "च्युतोत्तरीयां कबरीमिवाऽर्णवाम्बरेन्दिराया 'नवभङ्गसङ्गिनीम् ॥१३३॥ 'व्यवस्यमानामिव जेतुमंम्बरा - पगां तरङ्गैर्गगनावगाहिभिः । प्रियेण चाणूरभिदा वियोगिनी, निषेवमाना ( णा )मिव 'तीर्थमेदिनीम् ॥१३४॥ 'जलावगाहागतदन्तिपडिभि र्निलीनशैलाब्धितुलावहामिव । 'भुजामिवाऽम्भोजमुखी "मृणालिकां, हिरण्यबाहुं दधतीं च ँनाभिवत् ॥१३५॥ 'अमुं नमन्तीमिव वीचिसञ्चयै-विभावयन्तीमिव' 'मीनलोचनैः । ६ " अभिष्टुवन्तीमिव विष्किरवणै-र्लुलत्कजैर्नृत्यमिव प्रकुर्वतीम् ॥१३६॥ 'निखेलियोषास्तनचन्दनद्रवैः, सरिद्वरासंवलितप्लवामिव । क्रमात्स तत्राऽप्यवतीर्य 'सूर्यजां, 'न्यभालयँन्नेमिनिकेतनं पुरः ॥१३७॥ पञ्चभिः कुलकम् ॥ (१) सूरि: । (२) भर्तुः । (३) स्त्रियम् । ( ४ ) नित्यम् । ( ५ ) अङ्कसमीपे उत्सङ्गे च चरणशीलाम् । (६) पतितोपरितनवसनाम् । (७) वेणीमिव । (८) भूमिलक्ष्म्याः । (९ ) नव्यास्तरङ्गा रचनाश्च तेषां तासां वा सङ्गोऽस्त्यस्या इति ॥ १३३॥ १९५ ( १ ) 'प्रगल्भमानां' इति वा पाठ: । उद्यमं कुर्वाणाम् । (२) स्वर्गसङ्गाम् । ( ३ ) नभोव्यापनशीलैः । ( ४ ) कृष्णेन । (५) विरहिणीम् । ( ६ ) तीर्थभूमीम् । ( ७ ) भजन्तीम् ॥१३४॥ ( १ ) जलक्रीडाकरणाय समागतगजराजिभिः । (२) इन्द्रभयात्सलिलमध्यप्रविष्टाः पर्वता यत्र, तस्य समुद्रस्य साम्यधारिणीमिव । (३) बाहुम् । ( ४ ) स्त्रियम् । (५) कमलनालीम् । (६) ह्रदम् । (७) तुन्दकूपिकामिव ॥ १३५ ॥ (१) सूरिम् । ( २ ) नमस्कुर्वन्ती (र्वती )मिव । ( ३ ) कल्लोलमालाभि: । ( ४ ) पश्यन्तीमिव । (५) मत्स्यनेत्रैः । “विस्फुरच्छफरीनेत्रा तत्राऽपि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बु-रियमेव सरस्वती ॥१॥” इति पाण्डवचरित्रे । ( ६ ) स्तुतिं कुर्वतीमिव । (७) पक्षिरावैः । ( ८ ) चलत्कमलैः ॥१३६॥ ( १ ) जले क्रीडत्कामिनीकुचचन्दनरसैः । ( २ ) गङ्गामिलितपयःपूरामिव । ( ३ ) रपडीसमीपे सौर्यपुरपार्श्वे । (४) उत्तीर्य । ( ५ ) यमुनाम् । (६) ददर्श । (७) नेमिनाथप्रासादम् ॥१३७॥ 1. ०न्तीं शफरीक्षणैरिव हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy