SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९३ चतुर्दशः सर्गः 'निपीयमानो नयनैर्मृगीदृशा-मिवोऽय॑मानो विचाम्बुजन्मभिः । 'प्रणूयमानः कविभिनवस्तवै-र्जगत्पॅणन्स्वीयगुणैश्च वास्तवैः ॥१२२॥ मृगारिरंद्रेरिव कन्दरोदरे, कृशोदरीणां मनसीव मन्मथः । 'अमर्त्यदन्ती चतुरे हरेरिव, व्रतिक्षितीन्द्रो वसतिं विवेश सः ॥१२३॥ युग्मम् ।। (१) सादरं विलोक्यमानः । (२) स्त्रीणाम् । (३) पूज्यमानः । (४) स्मेरकमलैः । (५) स्तूयमानः । (६) काव्यकर्तृभिः । (७) तृप्ति प्रापयन् । (८) स्वाभाविकैः ॥१२२॥ (१) सिंहः । (२) पर्वतस्य । (३) गुहामध्ये । (४) कामिनीनाम् । (५) कामः । (६) ऐरावणः । (७) हस्तिशालायाम् । (८) हीरसूरिः ॥१२३॥ 'प्रतापदेवीतनयस्तंदुत्सवे, 'समर्थयन्नर्थिततेर्मनोरथान् । दरिद्रमुद्राम॑भिनत्तमां तटी, प्रवाहवत्प्रावृषि वार्धियोषितः ॥१२४॥ __ (१) थानसिंहः । (२) प्रभुप्रवेशमहोत्सवे । (३) पूर्णान्कुर्वन् । (४) याचकराजेः । (५) दुःस्थावस्थाम् । (६) भिनत्ति स्म । (७) तीरभित्तिम् । (८) वर्षाकाले । (९) नदीजलरयः ॥१२४॥ तडिद्वता तस्य निजातिपातुकां, समीक्ष्य 'सर्वार्थिषु कामवर्षिताम् । 'शितीकृतास्येन पदं मुरद्विषो, निषेव्यते तत्तुलनाकृते किमु ॥१२५॥ (१) मेघेन । (२) आत्मनोऽतिक्रमणशीलाम् ।(३) सर्वयाचकेषु । (४) काममतिशयेन अभिलाषाद्वर्षतीत्येवंशीलस्तद्भावः । (५) श्यामीकृतमुखेन । (६) कृष्णस्य । (७) तस्य साम्यं प्राप्तुम् ॥१२५॥ 'स्वकोशरक्षाधिकृतस्य भूमिमा-निवाऽखिलाक्षोणिजयार्जितैर्घनैः । विधाय कोशं नृपदत्तपुस्तकैः, स थानसिंहस्य वशंवदं व्यधात् ॥१२६॥ (१) भाण्डागाररक्षणेऽङ्गीकृतस्य भाण्डागारिणः । (२) राजा । (३) समस्तपृथिवीसाधनसञ्जातैः । (४) कृत्वा । (५) भाण्डागारम् । (६) वशमायत्तम् । (७) चकार ॥१२६॥ 'क्रमान्महादेशमिवाऽवनीशितु-निदेशासाद्य पयोधरोदये । *फतेपुरात्सँ प्रभुरांगरापुरं, पवित्रयामास पदाम्बुजन्मभिः ॥१२७॥ (१) कतिचिद्दिनान्तरम् । (२) महान्तं जनपदमिव । (३) साहेः । (४) आदेशम् । (५) प्राप्य । (६) वर्षाकालप्रारम्भे । (७) श्रीकरीनगरात् । (८) सूरिः । (९) उग्रसेनपुरापरपर्यायं पुरम् । (१०) चरणकमलैः ॥१२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy