SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९२ श्री हीरसुन्दर' महाकाव्यम् चन्द्र इव । (९) तारकैः । (१०) शरत्कालीनाभ्रकाणां मध्यादुदरात् ॥११६॥ तदा चकोरायितमर्णवायितं, 'रथाङ्गितं कैश्चन 'कैरवायितम् । स्रवन्मुदस्त्रैश्च विधूपलायितं, विलोक्य “यद्वक्त्रमृगाङ्कमङ्गिभिः ॥११७॥ (१) तस्मिन्नवसरे । (२) सूरिमुखलावण्यामृतपानकारिभिर्योत्स्नाप्रियैरिवाऽऽचरितम् । (३) वर्द्धमानप्रमोदतरङ्गशालिसमुद्रवदाचरितम् । (४) सर्वेऽपि समुद्राश्चन्द्रमालोक्य वृद्धिं प्राप्नुवन्ति-इति जगत्स्वधावः । तादृशं जनैरभिनन्द्यमानं प्रभुमहोदयं वीक्ष्य हदि असूयया दुःखाद्वैतदधानैः कुपाक्षिकैश्चक्रवाकैरिवाऽऽचरितम् । (५) विकसितवदनकोशैः कुमुदैरिवाऽऽचरितम् । (६) निर्यद्वर्षाश्रुभिः । (७) चन्द्रकान्तैरिवाऽऽचरितम् । चन्द्रोदये हि चन्द्रकान्तमणयोऽमृतं क्षरन्तीति प्रसिद्धिः । (८) सूरिवदनचन्द्रम् । (९) जनैः ॥११७॥ 'तदाऽभवद्भमिनभःप्रचारिणां, 'जयारवो भूपुरुहूतवर्मनोः । समीक्ष्य सूरेमहिमानमद्भुतं, हृदा दधाने इव रोदसी स्तुतः ॥११८॥ (१) तस्मिन्नवसरे । (२) भूचराणां खेचराणां च । (३) जयजयेति ध्वनिः । (४) भूमिनभसोः । (५) दृष्ट्वा । (६) माहात्म्यम् । (७) आश्चर्यम् । (८) धारयन्त्यौ । (९) द्यावापृथिव्यौ ॥११८॥ वाशिव्यौ ॥११८॥ मिलत्पयोवाहपयोधिगर्जितै-रिवोऽऽहतातोद्यनिनादसान्द्रितैः । 'प्रमोदमाद्यत्तुमुलैस्तनूमतां, जगत्तदा शब्दमयं स्म जायते ॥११९॥ (१) सजलजलदमालालिङ्गितजलधिगर्जारवैः । (२) वादितवाजिन्त्रशब्दैर्बहलीकृतैः । (३) हर्षोल्लासितकोलाहलैः । (४) नादस्वरूपम् ॥११९॥ 'कुलाङ्गनाभिः प्रभुमूनि हैमन-प्रसूनमुक्ताफललाजराजयः । ववर्षिरे प्रावृषि मेघपतिभि-स्तोऽम्बुधाराः 'शिखरे गिरेरिव ॥१२०॥ (१) सुकुलवशाभिः । (२) सूरिमस्तके । (३) सुवर्णसम्बन्धिकुसुमानि मौक्तिकानि अक्षतास्तेषां श्रेणयः । (४) वर्षाकाले । (५) जलधाराः । (६) शृङ्गे ॥१२०॥ पराय॑सङ्ख्यैः पुरुषैः परिष्कृतः, प्रभुर्महें बिभ्रति मेदसां भरम् । '[चतुर्निकायप्रभवैरिवाऽमरैः], प्रतिष्ठते स्म त्रिजगत्पुरन्दरः ॥१२१॥ (१) सर्वाङ्कान्तिमप्रमाणैः प्रकृष्टप्रमाणैर्वा । (२) परीतः । (३) सूरिः । (४) उत्सवे । (५) पुष्टिम् । "तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे" इति नैषधे । (६) प्रस्थितः । (७) जगन्नाथः ॥१२१॥ 1. [ ] एतदन्तर्गत: पाठस्तस्य टीका च हीसुं.प्रतौ नास्ति । एषः पाढो हीमु.पुस्तकात् गृहीतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy