SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः १८९ 'महीमरुत्वानेथ 'शेखशेखरं, 'प्रतापदेवीतनयं "ताऽऽह्वयत् । ततः “सुजन्तौ प्रणतिं प्रभो भौ, ग्रहाविवाऽर्कस्य समीपमीयतुः ॥१०२॥ युग्मम् ॥ (१) पूर्वोक्तम् । (२) विचारम् । (३) कृत्वा । (४) चित्तेन । (५) शोभां नयन् । (६) प्रदेशम् । (७) सूरिसमीपात् । (८) भूमेः । (९) अन्यम् । (१०) चन्द्रस्य । (११) गतिविशेषस्याऽऽयत्तत्वात् । (१२) समीपगामी । (१३) भौमादिः । (१४) मार्गस्य । (१५) देवानाम् । यथा चन्द्रस्य समीपगो ग्रहश्चारवशाद्गगनस्याऽन्यं प्रदेशं श्रयते इत्यर्थः ॥१०१॥ (१) भूमीन्द्रः । (२) अपरप्रदेश आगमनानन्तरम् । (३) शेखेषु-यवनगुरुषु मुकुटम् । ( ४) थानसिंहम् । (५) पुनः । (६) आकारयामास । (७) आकारणानन्तरम् । (८) कुर्वन्तौ। (९) प्रणामम् । (१०) साहेः । (११) शेख-थानसिंहौ । (१२) भौमादिकौ । (१३) सूर्यस्य । (१४) पार्श्वम् । (१५) आगतौ ॥१०२॥ 'अमी न गृह्णन्ति मदीयपुस्तकं, 'निरीहभावेन बहूदिता अपि । ततो युवां ग्राहयतां कथञ्चना-ऽप्यंमून्यशो 'मूर्तमिवेन्दुसुन्दरम् ॥१०३॥ (१) सूरयः । (२) पद्मसुन्दरसम्बन्धि मद्दत्तपुस्तकम् । (३) निःस्पृहत्वेन । (४) वारं वारं विज्ञप्ता अपि । (५) ततः कारणात् । (६) भवन्तौ । (७) स्वायत्तीकारयतः । (८) केनापि प्रकारेण । (९) सूरीन् । (१०) शरीरवत् । (११) चन्द्रवदुज्ज्वलम् ॥१०३॥ 'इदं गदित्वाऽन्तरिते स्थिते नृपें-शुमालिनीवाऽभ्रकशालिनि क्षणात् । उपेत्य तावूचतुरित्य मून्प्रति, प्रणीततत्पत्कजरेणुचित्रकौ ॥१०४॥ (१) इदं-पूर्वप्रोक्तम् । (२) कथयित्वा । (३) व्यवहिते । (४) सूर्य इव । (५) मेघमध्ये भासमाने । अभ्रकेणाऽदृश्ये वा (६) आगत्य । (७) शेख-थानसिंहौ । (८) कथयतः स्म । (९) इत्यग्रे वक्ष्यमाणम् । (१०) सूरीन्प्रति । (११) कृतं सूरिचरणकमलरजसा तिलकं याभ्यां-तौ ॥१०४॥ इदं व्रतीन्द्राः 'क्षितिशीतदीधिते-गृहीतवत्तिष्ठति धाम्नि पुस्तकं । दधाति खेदं पतितं यतः 'क्षिते, रजःस्थितं रत्नमिवाऽत्र गृह्यताम् ॥१०५॥ (१) अकब्बरसाहेः । (२) नियन्त्र्य रक्षितवत् । (३) गृहे । (४) विषवादम् । (५) भूमेः । (६) धूलीमध्यगतम् । (७) मणिमिव ॥१०५॥ हमांउसूः सोमयशोऽङ्गजन्मव-द्ददाति पात्रं 'गुरवो युगादिवत् । रसो यथेक्षोरपि वस्तु पुस्तकं, कथं न गृह्णीथ तदहात्मनः ॥१०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy